________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
७
॥
॥८
॥
॥ ९॥
॥१०॥
दिवस्पृथिव्यौ रोदस्यौ रोदसी रोदसी च ते । उर्वरा सर्वसस्या भूरिरिणं पुनरूषरम् स्थलं स्थली मरुर्धन्वा क्षेत्राद्यप्रहतं खिलम् । मृन्मृत्तिका सा क्षारोषो मृत्सा मृत्स्ना च सा शुभा रुमा लवणखानि: स्यात्सामुद्रं लवणं हि यत्। तदक्षीवं वशिरश्च सैन्धवं तु नदीभवम् माणिमन्थं शीतशिवं गैमकं तु रुमाभवम् । वसुकं वस्तूकं तच्च विडपाक्ये तु कृत्रिमे सौवर्चलेऽक्षं रुचकं दुर्गन्धं शूलनाशनम् । कृष्णे तु तत्र तिलकं यवक्षारो यवाग्रजः यवनालज: पाक्यश्च पाचनकस्तु टङ्गणः । मालतीतीरजो लोहश्लेषणो रसशोधनः समास्तु स्वर्जिकाक्षारकापोतसुखवर्चकाः। स्वर्जिस्तु स्वर्जिका स्रुग्घ्नी योगवाही सुवर्चिका भरतान्यैरावतानि विदेहाश्च कुरून् विना । वर्षाणि कर्मभूम्यः स्युः शेषाणि फलभूमयः वर्षं वर्षधराघवं विषयस्तूपर्वतनम् । देशो जनपदो नीवृद् राष्ट्र निर्गश्च मण्डलम् आर्यावर्तो जन्मभूमिर्जिनचक्र्यर्द्धचक्रिणाम् । पुण्यभूराचारवेदी मध्यं विन्ध्यहिमागयोः गङ्गायमुनयोर्मध्यमन्तर्वेदि: समस्थली । ब्रह्मावर्तः सरस्वत्या दृषद्वत्याश्च मध्यतः ब्रह्मवेदिः कुरुक्षेत्रे पञ्चराम हृदान्तरम् । धर्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधि
॥ ११ ॥
॥ १२ ॥
॥ १३॥
।। १४ ।।
॥ १५ ॥
॥१६॥
८०
For Private And Personal Use Only