________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५६८॥
॥५६९ ॥
॥ ५७०॥
॥ ५७१ ॥
॥ ५७२ ॥
॥ ५७३॥
मध्वासवे माधवको मैरेये शीधुरासवः । जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहू: नग्नहुर्मद्यबीजं च मद्यसंधानमासुतिः । आसवोऽभिषवो मद्यमण्डकारोत्तमौ समौ गल्वर्कस्तु चषक: स्यात्सरकश्चानुतर्षणम्। शुण्डा पानमदस्थानं मधुवारा मधुक्रमाः सपीति: सहपानं स्यादापानं पानगोष्ठिका। उपदंशस्त्ववदंशश्चक्षणं मद्यपाशनम् नार्डिधमः स्वर्णकार: कलादो मुष्टिकश्च सः । तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका आस्फोटनी वेधनिका शाणस्तु निकषः कषः । संदंशः स्यात्कङ्कमुखो भ्रमः कुन्दं च यन्त्रकम् वैकटिको मणिकारः शौल्विकस्ताम्रकुट्टकः । शाङ्खिक: स्यात्काम्बविकस्तुन्नवायस्तु सौचिकः कृपाणी कर्तरी कल्पन्यपि सूची तु सेवनी । सूचीसूत्रं पिप्पलकं तर्कुः कर्तनसाधनम् पिञ्जनं विहननं च तूलस्फोटनकार्मुकम् । सेवनं सीवनं स्यूतिस्तुल्यौ स्यूतप्रसेवको तन्त्रवाय: कुविन्द: स्यात्त्रसर: सूत्रवेष्टनम् । वाणियूँतिर्वानदण्डो वेमा सूत्राणि तन्तवः निर्णेजकस्तु रजक: पादुकाकृत्तु चर्मकृत् । उपानत्पादुका पादू: पन्नद्धा पादरक्षणम् प्राणहिताऽनुपदीना त्वाबद्धाऽनुपदं हि या । नद्धी वधी वरत्रा स्यादारा चर्मप्रभेदिका
।। ५७४ ॥
॥ ५७५ ॥
॥ ५७६ ॥
॥ ५७७ ॥
।। ५७८ ॥
॥ ५७९ ॥
lolo
For Private And Personal Use Only