SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ५३२॥ ।। ५३३॥ ।। ५३४॥ ।। ५३५ ॥ ।। ५३६॥ || ५३७ ॥ वैदेह: सार्थवाहश्च क्रायक: क्रयिकः क्रयी। केयदे तु विपूर्वास्ते मूल्ये वस्नार्घवक्रया: मूलद्रव्यं परिपणो नीवी लाभोऽधिकं फलम् । परिदानं विनिमयो नैमेयः परिवर्तनम् व्यतिहारः परावर्तो वैमेयो निमयोऽपि च । निक्षेपोपनिधी न्यासे प्रतिदानं तदर्पणम् क्रेतव्यमात्रके क्रेयं क्रय्यं न्यस्तं क्रयाय यत् । पणितव्यं तु विक्रेयं पण्यं सत्यापनं पुनः सत्यंकारः सत्याकृतिस्तुल्यौ विपणविक्रयौ। गण्यं गणेयं संख्येयं संख्या त्वेकादिका भवेत् यथोत्तरं दशगुणं भवेदेको दशामुतः । शतं सहस्रमयुतं लक्षप्रयुतकोटयः अर्बुदमब्जं खर्वं च निखर्वं च महाम्बुजम् । शङ्कुद्धिरन्त्यं मध्यं परार्द्धं चेति नामतः असंख्यं द्वीपवार्ष्यादि पुद्गलात्माद्यनन्तकम् । सांयात्रिकः पोतवणिक् यानपात्रं वहिनकम् बोहित्थं वहनं पोतः पोतवाहो नियामकः । निर्यामः कर्णधारस्तु नाविको नौस्तु मङ्गिनी तरीतरण्यौ बेडाऽथ द्रोणी काष्ठाम्बुवाहिनी। नौकादण्डः क्षेपणी स्याद् गुणवृक्षस्तु कूपक: पोलिन्दास्त्वन्तरादण्डाः स्याद् मङ्गो मङ्गिनीशिरः । अभ्रिस्तु काष्ठकुद्दालः सेकपात्रं तु सेचनम् केनिपात: कोटिपात्रमरित्रेऽथोऽडुपः प्लवः । कोलो भेलस्तरण्डश्च स्यात्तरपण्यमातरः ॥ ५३८॥ ।। ५३९ ॥ ।। ५४०॥ ।। ५४१॥ ॥ ५४२ ॥ ।। ५४३॥ ७४ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy