SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ५२० ॥ ।। ५२१ ॥ ॥ ५२२ ॥ ॥ ५२३॥ ॥ ५२४ ।। ॥ ५२५ ॥ धर्मध्वजी लिङ्गवृत्तिर्वेदहीनो निराकृतिः । वार्ताशी भोजनार्थं यो गोत्रादि वदति स्वकम् उच्छिष्टभोजनो देवनैवेद्यबलिभोजनः । अजपस्त्वसदध्येता शाखारण्डोऽन्यशाखकः शस्त्राजीव: काण्डस्पृष्टो गुरुहा नरकीलकः । मलो देवादिपूजायामश्राद्धोऽथ मलिम्लुचः पञ्चयज्ञपरिभ्रष्टो निषिद्धैकरुचिः खरुः । सुप्ते यस्मिन्नुदेत्यर्कोऽस्तमेति च क्रमेण तौ अभ्युदिताभिनिर्मुक्तौ वीरोज्झो न जुहोति यः । अग्निहोत्रच्छलाद् याच्यापरो वीरोपजीविक: वीरविप्लावको जुह्वद् धनैः शूद्रसमाहृतैः । स्याद्वादवाद्यार्हतः स्याच्छून्यवादी तु सौगतः नैयायिकस्त्वाक्षपादो योगः साङ्ख्यस्तु कापिलः। वैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः चार्वाको लौकायतिकश्चैते षडपि तार्किकाः । क्षत्रं तु क्षत्रियो राजा राजन्यो बाहुसंभवः अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः । वाणिज्यं पाशुपाल्यं च कर्षणं चेति वृत्तयः आजीवो जीवनं वार्ता जीविका वृत्तिवेतने । उञ्छो धान्यकणादानं कणिशाद्यर्जनं शिलम् ऋतं तद्वयमनृतं कृषिम॑तं तु याचितम्। अयाचितं स्यादमृतं सेवावृत्तिः श्वजीविका सत्यानृतं तु वाणिज्यं वणिज्या वाणिजो वणिक् । क्रयविक्रयिक: पण्याजीवाऽऽपणिकनैगमाः ॥ ५२६ ॥ ॥ ५२७॥ ॥ ५२८ ॥ ।। ५२९॥ ॥ ५३० ॥ ।। ५३१ ॥ ७३ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy