SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ५०८॥ ।। ५०९॥ ॥ ५१० ॥ ॥ ५११॥ ॥ ५१२ ।। ॥ ५१३॥ वृत्तं शीलं च सर्वैनोध्वंसि जप्येऽघमर्षणम् । समास्तु पादग्रहणाभिवादनोपसङ्ग्रहाः उपवीतं यज्ञसूत्रं प्रोद्धते दक्षिणे करे। प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् प्राचेतसस्तु वाल्मीकिर्वल्मीककुशिनौ कविः । मैत्रावरुणवाल्मीकौ वेदव्यासस्तु माठरः द्वैपायन: पाराशर्यः कानीनो बादरायणः । व्यासोऽस्याम्बा सत्यवती वासवी गन्धकालिका योजनगन्धा दाशेयी शालङ्कायनजा च सा। जामदग्न्यस्तु रामः स्याद्भार्गवो रेणुकासुतः नारदस्तु देवब्रह्मा पिशुनः कलिकारकः । वशिष्ठोऽरुन्धतीजानिरक्षमाला त्वरुन्धती त्रिशङ्कुयाजी गाधेयो विश्वामित्रश्च कौशिकः । कुशारणिस्तु दुर्वासाः शतानन्दस्तु गौतमः याज्ञवल्क्यो ब्रह्मरात्रिर्योगेशोऽप्यथ पाणिनौ । सालातुरीयदाक्षेयौ गोनर्दीये पतञ्जलिः कात्यायनो वररुचिर्मेधाजिच्च पुनर्वसुः । अथ व्याडिविन्ध्यवासी नन्दिनीतनयश्च सः स्फोटायने तु कक्षीवान् पालकाप्ये करेणुभूः । वात्स्यायने मल्लनागः कौटिल्यश्चणकात्मजः द्रामिल: पक्षिलस्वामी विष्णुगुप्तोऽङ्गुलश्च सः। क्षतव्रतोऽवकीर्णी स्याद् व्रात्यः संस्कारवर्जितः शिश्विदानः कृष्णकर्मा ब्रह्मबन्धुद्धिजोऽधमः । नष्टाग्निर्वीरहा जातिमात्र जीवी द्विजब्रुवः ॥ ५१४॥ ॥ ५१५॥ ॥ ५१६॥ ॥ ५१७ ॥ ॥ ५१८॥ ।। ५१९ ॥ ૦૨ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy