SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४८४॥ ॥ ४८५ ॥ ॥ ४८६॥ ॥ ४८७॥ ॥ ४८८ ॥ ॥४८९ ॥ यज्ञो यागः सवः सत्रं स्तोमो मन्युर्मखः क्रतुः । संस्तरः सप्ततन्तुश्च वितानं बहिरध्वरः अध्ययनं ब्रह्मयज्ञः स्याद्देवयज्ञ आहुतिः । होमो होत्रं वषट्कारः पितृयज्ञस्तु तर्पणम् तच्छ्राद्धं पिण्डदानं च नृयज्ञोऽतिथिपूजनम् । भूतयज्ञो बलिः पञ्च महायज्ञा भवन्त्यमी पौर्णमासश्च दर्शश्च यज्ञौ पक्षान्तयोः पृथक् । सौमिकी दीक्षणीयेष्टिीक्षा तु व्रतसंग्रहः वृतिः सुगहना कुम्बा वेदी भूमिः परिष्कृता । स्थण्डिलं चत्वरं चान्या यूपः स्याद् यज्ञकीलक: चषालो यूपकटके यूपकर्णो घृतावनौ । यूपाग्रभागे स्यात्तारणिनिर्मन्थदारुणि स्युर्दक्षिणाहवनीयगार्हपत्यास्त्रयोऽग्नयः । इदमग्नित्रयं त्रेता प्रणीत: संस्कृतोऽनल: ऋक् सामिधेनी धाय्या च समिदाधीयते यया। समिदिन्धनमेधेध्मतर्पणैधांसि भस्म तु स्याद् भूतिर्भसितं रक्षा क्षार: पात्रं सुवादिकम् । स्रुवः स्रुगधरा सोपभृज्जुहूः पुनरुत्तरा ध्रुवा तु सर्वसंज्ञार्थं यस्यामाज्यं निधीयते । योऽभिमन्त्र्य निहन्येत स स्यात्पशुरुपाकृतः परम्पराकं शसनं प्रोक्षणं च मखे वधः । हिंसार्थ कर्माभिचारः स्याद्यज्ञाहँ तु यज्ञियम् हविः सान्नाय्यमामिक्षा शृतोष्णक्षीरगं दधि । क्षीरशरः पयस्या च तन्मस्तुनि तु वाजिनम् ॥ ४९० ॥ ॥ ४९१ ॥ ॥ ४९२ ॥ ॥ ४९३ ।। ।। ४९४॥ ॥ ४९५ ॥ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy