________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४४९ ॥
।। ४५० ॥
।। ४५१ ॥
॥ ४५२ ।।
॥ ४५३ ॥
॥ ४५४ ॥
दण्डो यष्टिश्च लगुडः स्यादीली करवालिका। भिन्दिपाले सृगः कुन्ते प्रासोऽथ द्रुघणो घनः मुद्गरः स्यात्कुठारस्तु परशुः पशुपर्श्वधौ । परश्वधः स्वधितिश्च परिघः परिघातनः सर्वला तोमरे शल्यं शङ्कौ शूले त्रिशीर्षकम् । शक्तिपट्टिसदुःस्फोटचक्राद्याः शस्त्रजातयः खुरली तु श्रमो योग्याऽभ्यासस्तद्भः खलूरिका । सर्वाभिसारः सर्वोघ: सर्वसनहनं समाः लोहाभिसारो दशम्यां विधिर्नीराजनात्परः । प्रस्थानं गमनं व्रज्याऽभिनिर्याणं प्रयाणकम् यात्राऽभिषेणनं तु स्यात्सेनयाऽभिगमो रिपौ । स्यात्सुहृद्बलमासारः प्रचक्रं चलितं बलम् प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे । अभिक्रमो रणे यानमभीतस्य रिपून् प्रति अभ्यमित्र्योऽभ्यमित्रीयोऽभ्यमित्रीणोऽभ्यरिव्रजन् । स्यादुरस्वानुरसिल ऊर्जस्व्यूर्जस्वलौ समौ सांयुगीनो रणे साधुर्जेता जिष्णुश्च जित्वरः । जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके वैतालिका बोधकरा अर्थिकाः सौखसुप्तिकाः । घाण्टिकाश्चाक्रिका: सूतो बन्दी मङ्गलपाठकः मागधो मगध: संशप्तका युद्धानिवर्तिनः । नग्नः स्तुतिव्रतस्तस्य ग्रन्थो भोगावली भवेत् प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौर्योजसी शुष्मं शुष्म च शक्तिरू सहसी युद्धं तु संख्यं कलिः ।
॥ ४५५ ॥
॥ ४५६ ॥
॥ ४५७॥
॥ ४५८ ॥
॥४५९ ॥
६७
For Private And Personal Use Only