________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४३७॥
॥ ४३८ ॥
॥ ४४०॥
च्युतेषुर्दूवेधी तु दूरापात्यायुधं पुनः । हेतिः प्रहरणं शस्त्रमस्त्रं तच्च चतुर्विधम् मुक्तं द्विधा पाणियन्त्रमुक्तं शक्तिशरादिकम् । अमुक्तं शस्त्रिकादि स्याद् यष्ट्याद्यं तु द्वयात्मकम् धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम् । द्रुणासौ लस्तकोऽस्यान्तरग्रं त्वतिरटन्यपि
॥ ४३९ ॥ मौर्वी जीवा गुणो गव्या शिञ्जा बाणासनं द्रुणा । शिञ्जिनी ज्या च गोधा तु तलं ज्याघातवारणम् स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् । समपादं च वेध्यं तु लक्षं लक्ष्यं शरव्यकम्
॥ ४४१ ॥ बाणे पृषत्कविशिखौ खगगार्धपक्षौ काण्डाशुगप्रदरसायकपत्रवाहाः । पत्रीष्वजिह्मगशिलीमुखकङ्कपत्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः । प्रक्ष्वेडनः सर्वलौहो नाराच एषणश्च सः । निरस्तः प्रहितो बाणे विषाक्ते दिग्धलिप्तको ॥ ४४३ ॥ बाणमुक्तिर्व्यवच्छेदो दीप्तिर्वेगस्य तीव्रता । क्षुरप्रतद्बलार्द्धन्दुतीरीमुख्यास्तु तद्भिदः
॥ ४४४॥ पक्षो वाजः पत्रणा तन्न्यासः पुङ्खस्तु कर्तरी । तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः
॥ ४४५ ॥ शरधि: कलापोऽप्यथ चन्द्रहास: करवालनिस्त्रिशकृपाणखड्गाः । तरवारिकौक्षेयकमण्डलाग्रा असिरृष्टिरिष्टी त्सरुरस्य मुष्टिः॥ ४४६ प्रत्याकार: परीवार: कोशः खड्गपिधानकम् । अड्डनं फलकं चर्म खेटकावरणस्फुराः अस्य मुष्टिस्तु संग्राहः क्षुरी छुरी कृपाणिका । शस्त्र्यसेर्धेनुपुत्र्यौ च पत्रपालस्तु साऽऽयता
।। ४४८॥
॥ ४४७॥
For Private And Personal Use Only