SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ४२५ ॥ ॥ ४२६ ॥ ॥ ४२७॥ ॥४२८॥ || ४२९॥ || ४३० ।। स्थरोहिणि तु रथी रथिके रथिरो रथी । अश्वारोहे त्वश्ववार सादी च तुरगी च सः हस्त्यारोहे सादियन्तृमहामात्रनिषादिनः । आधोरणा हस्तिपका गजाजीवेभपालकाः योद्धारस्तु भटा योधाः सेनारक्षास्तु सैनिकाः । सेनायां ये समवेतास्ते सैन्याः सैनिका अपि ये सहस्रेण योद्धारस्ते साहस्राः सहस्रिणः । छायाकस्च्छत्रधारः पताकी वैजयन्तिकः परिधिस्थः परिचर आमुक्तः प्रतिमुक्तवत् । अपिनद्धः पिनद्धोऽथ सन्नद्धो व्यूढकङ्कटः दंशितो वर्मितः सज्जः सन्नाहो वर्मकङ्कटः । जगरः कवचं दंशस्तनुत्रं माठ्युरश्छदः निचोलक: स्यात्कूर्पासो वारबाणश्च कञ्चकः । सारसनं त्वधिकाङ्गं हदि धार्य सकञ्चुकैः शिरस्त्राणे तु शीर्षण्यं शिरस्कं शीर्षकं च तत् । नागोदमुदरत्राणं जङ्घात्राणं तु मत्कुणम् बाहुत्राणं बाहुलं स्याद् जालिका त्वङ्गरक्षणी । जालप्रायाऽऽयसी स्यादायुधीयः शस्त्रजीविनि काण्डपृष्ठायुधिकौ च तुल्यौ प्रासिककौन्तिकौ । पारश्वधिकस्तु पारश्वधः परश्वधायुधः स्यु त्रिशिकशाक्तीकयाष्टीकास्तत्तदायुधाः । तूणी धनु द् धानुष्कःस्यात्काण्डीरस्तु काण्डवान् कृतहस्तः कृतपुङ्खः सुप्रयुक्तशरो हि यः । शीघ्रवेधी लघुहस्तोऽपराद्धेषुस्तु लक्ष्यतः ॥ ४३१ ॥ ॥ ४३२ ॥ ॥ ४३३ ॥ ॥४३४ ॥ ॥ ४३५ ॥ || ४३६ ॥ su For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy