SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || ४१३॥ ॥४१४ ॥ ॥ ४१५ ॥ ॥ ४१६ ॥ ॥ ४१७॥ ॥ ४१८॥ अनीकिनी च पत्तेः स्यादिभाद्यैस्त्रिगुणैः क्रमात् । दशानीकिन्योऽक्षौहिणी सज्जनं तूपरक्षणम् वैजयन्ती पुन: केतुः पताका केतनं ध्वजः । अस्योच्चूलावचूलाख्यावूर्वाधोमुखकूर्चको गजो वाजी रथः पत्ति: सेनाङ्गं स्याच्चतुर्विधम् । युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः स क्रीडार्थः पुष्परथो देवार्थस्तु मरुद्रथः । योग्यारथो वैनयिकोऽध्वरथ: पारियानिक: कर्णीरथः प्रवहणं डयनं रथगर्भकः । अनस्तु शकटोऽथ स्याद् गन्त्री कम्बलिवाह्यकम् अथ काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे। स पाण्डुकम्बली यः स्यात्संवीत: पाण्डुकम्बलैः स तु द्वैपो वैयाघ्रश्च यो वृतो द्वीपिचर्मणा। रथाङ्गं रथपादोऽरि चक्र धारा पुनः प्रधिः नेमिरक्षाग्रकीले त्वण्याणी नाभिस्तु पिण्डिका । युगन्धरं कूबरं स्याद् युगमीशान्तबन्धनम् युगकीलकस्तु शम्या प्रासङ्गस्तु युगान्तरम् । अनुकर्षो दार्वधःस्थं धूर्वीयानमुखं च धूः रथगुप्तिस्तु वरूथो रथाङ्गानि त्वपस्कराः । शिबिका याप्ययानेऽथ दोला प्रेक्षादिका भवेत् वैनीतकं परम्परावाहनं शिबिकादिकम् । यानं युग्यं पत्रं वाह्यं वह्यं वाहनधोरणे नियन्ता प्राजिता यन्ता सूतः सव्येष्ठुसारथी। दक्षिणस्थप्रवेतारौ क्षत्ता रथकुटुम्बिकः ।। ४१९ ॥ ॥ ४२० ॥ ॥ ४२१ ॥ ॥ ४२२ ॥ ॥४२३॥ ॥ ४२४ ॥ ५४ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy