SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ४०१॥ ॥ ४०२॥ ॥ ४०३ ॥ ॥ ४०४ ॥ ॥ ४०५ ।। ॥ ४०६ ॥ प्राभृतं ढौकनं लञ्चोत्कोचः कौशलिकामिषे । उपाच्चार: प्रदानं दाहारौ ग्राह्यायने अपि मायोपेक्षेन्द्रजालानि क्षुद्रोपाया इमे त्रयः । मृगयाऽक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे दण्डपारुष्यमित्येतद् हेयं व्यसनसप्तकम् । पौरुषं विक्रमः शौर्यं शौण्डीर्यं च पराक्रमः यत्कोशदण्डजं तेजः स प्रभावः प्रतापवत् । भिया धर्मार्थकामैश्च परीक्षा या तु सोपधा तन्मन्त्राद्यषडक्षीणं यत्तृतीयाद्यगोचरः । रहस्यालोचनं मन्त्रो रहश्छन्नमुपह्वरम् विविक्तविजनैकान्तनिःशलाकानि केवलम् । गुह्ये रहस्यं न्यायस्तु देशरूपं समञ्जसम् कल्पाभ्रेषौ नयो न्याय्यं तूचितं युक्तसाम्प्रते । लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च प्रक्रिया त्वधिकारोऽथ मर्यादा धारणा स्थितिः । संस्थाऽपराधस्तु मन्तुळलीकं विप्रियागसी बलि: करो भागधेयो द्विपाद्यो द्विगुणो दमः । वाहिनी पृतना सेना बलं सैन्यमनीकिनी कटकं ध्वजिनी तन्त्रं दण्डोऽनीकं पताकिनी । वरूथिनी चमूश्चक्रं स्कन्धावारोऽस्य तु स्थितिः शिबिरं रचना तु स्याद् व्यूहो दण्डादिको युधि । प्रत्यासारो व्यूहपार्णि: सैन्यपृष्ठे प्रतिग्रहः एकेभैकरथास्त्र्यश्वाः पत्तिः पञ्चपदातिका । सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ॥ ४०७ ॥ ॥४०८ ॥ ॥ ४०९ ॥ n४१०॥ ।। ४११ ॥ ॥ ४१२ ॥ 93 For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy