SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्माधिकरणी चाथ हट्टाध्यक्षोऽधिकर्मिकः । चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥ ३८९॥ स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु । स्यातामन्तःपुराध्यक्षेऽन्तर्वंशिकावरोधिको ।। ३९० ॥ शुद्धान्त: स्यादन्तःपुरमवरोधोऽवरोधनम् । सौविदल्ला: कञ्चुकिनः स्थापत्या: सौविदाश्च ते ।। ३९१ ॥ षण्ढे वर्षवरः शत्रौ प्रतिपक्ष: परो रिपुः । शात्रवः प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी || ३९२ ॥ दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः । दुर्हत् परेः पन्थकपन्थिनौ द्विट् प्रत्यर्थिमित्रावभिमात्यराती ॥ ३९३ ॥ वैरं विरोधो विद्वेषो वयस्य: सवयाः सुहृत् । स्निग्धः सहचरो मित्रं सखा सख्यं तु सौहृदम् ।। ३९४ ॥ सौहार्द साप्तपदीनमैत्र्यजर्याणि संगतम् । आनन्दनं त्वाप्रच्छनं स्यात्सभाजनमित्यपि ॥ ३९५ ॥ विषयानन्तरो राजा शत्रुमित्रमतः परम् । उदासीनः परतरः पार्णिग्राहस्तु पृष्ठतः ॥ ३९६ ॥ अनुवृत्तिस्त्वनुरोधो हेरिको गूढपूरुषः । प्रणिधिर्यथार्हवर्णोऽवसर्पो मन्त्रविच्चर: ॥ ३९७ ॥ वार्तायन: स्पशश्चार आप्तप्रत्ययितौ समौ । सत्रिणि स्याद्गृहपतिर्दूत: सन्देशहारकः ॥ ३९८ ॥ सन्धिविग्रहयानान्यासनद्वैधाश्रया अपि । षड्गुणाः शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः ॥ ३९९ ॥ सामदानभेददण्डा उपाया: साम सान्त्वनम् । उपजापः पुनर्भेदो दण्ड: स्यात्साहसं दमः ॥ ४०० ॥ ૨ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy