SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३५३ ॥ || ३५४॥ ॥ ३५५ ॥ ॥ ३५६॥ ॥ ३५७ ॥ ।। ३५८॥ गिरियको गिरिगुडः समौ कन्दुकगेन्दुकौ । राजा राट् पृथिवीशकमध्यलोकेशभूभृतः महीक्षित् पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः । मध्यमो मण्डलाधीशः सम्राट् तु शास्ति यो नृपान् यः सर्वमण्डलस्येशो राजसूयं च योऽयजत् । चक्रवर्ती सार्वभौमस्ते तु द्वादश भारते आर्षभिर्भरतस्तत्र सगरस्तु सुमित्रभूः । मघवा वैजयिरथाश्वसेननृपनन्दनः सनत्कुमारोऽथ शान्ति: कुन्थुररो जिना अपि । सुभूमस्तु कार्तवीर्यः पद्मः पद्मोत्तरात्मजः हरिषेणो हरिसुतो जयो विजयनन्दनः । ब्रह्मसूनुर्ब्रह्मदत्तः सर्वेऽपीक्ष्वाकुवंशजाः प्राजापत्यस्त्रिपृष्ठोऽथ द्विपृष्ठो ब्रह्मसंभवः । स्वयंभू रुद्रतनयः सोमभूः पुरुषोत्तमः शैवः पुरुषसिंहोऽथ महाशिरःसमुद्भवः । स्यात्पुरुषपुण्डरीको दत्तोऽग्निसिंहनन्दनः नारायणो दाशरथिः कृष्णस्तु वसुदेवभूः । वासुदेवा अमी कृष्णा नव शुक्ला बलास्त्वमी अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो रामो विष्णुद्विषस्त्वमी अश्वग्रीवस्तारकश्च मेरको मधुरेव च । निशुम्भबलिप्रह्लादलङ्केशमगधेश्वराः जिनैः सह त्रिषष्टिः स्युः शलाकापुरुषा अमी। आदिराजः पृथुर्वैन्यो मान्धाता युवनाश्वजः ॥ ३५९ ॥ ॥ ३६० ॥ ॥ ३६१॥ ॥ ३६२॥ ॥ ३६३ ॥ ॥ ३६४ ॥ ૫૯ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy