SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उत्सवेषु सुहृद्भिर्यद्बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् तत्तु स्यादाप्रपदीनं व्याप्नोत्याप्रपदं हि यत् । चीवरं भिक्षुसङ्घाटी जीर्णवस्त्रं पटच्चरम् शाणी गोणी छिद्रवस्त्रे जलार्द्रा क्लिन्नवाससि । पर्यस्तिका परिकरः पर्यङ्कश्चावसक्थिका कुथे वर्णः परिस्तोमः प्रवेणीनवतास्तराः । अपटी काण्डपटः स्यात्प्रतिसीरा जवन्यपि तिरस्करिण्यथोल्लोचो वितानं कदकोऽपि च । चन्द्रोदये स्थूलं दृष्ये केणिका पटकुट्यपि गुणलयनिकायां स्यात्संस्तरस्त्रस्तरौ समौ । तल्पं शय्या शयनीयं शयनं तलिमं च तत् मञ्चमञ्चकपर्यङ्कपल्यङ्काः खट्वया समाः । उच्छीर्षकमुपाद् धानबहौं पाले पतद्ग्रहः प्रतिग्राहो मकुरात्मदर्शादर्शास्तु दर्पणे । स्याद्वेत्रासनमासन्दी विष्टरः पीठमासनम् कसिपुर्भोजनाच्छादावौशीरं शयनासने । लाक्षा द्रुमामयो राक्षा रङ्गमाता पलङ्कषा जतु क्षतघ्ना कृमिजा यावालक्तौ तु तद्रसः । अञ्जनं कज्जलं दीपः प्रदीपः कज्जलध्वजः स्नेहप्रियो गृहमणिर्दशाकर्षो दशेन्धनः । व्यजनं तालवृन्तं तद्धवित्रं मृगचर्मणा आलावर्तं तु वस्त्रस्य कङ्कतः केशमार्जन: 1 प्रसाधनश्चाथ बालक्रीडनके गुडो गिरिः ૫૮ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ३४१ ॥ ।। ३४२ ।। ॥ ३४३ ॥ ॥ ३४४ ॥ ॥ ३४५ ॥ ॥ ३४६ ॥ ॥ ३४७ ॥ ॥ ३४८ ॥ ॥ ३४९ ॥ ।। ३५० ।। ॥ ३५१ ॥ ॥ ३५२ ।।
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy