________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ३२९ ॥
।। ३३० ॥
।। ३३१ ॥
॥ ३३२ ।।
।। ३३३ ॥
॥ ३३४॥
सा शृङ्खलं पुंस्कटिस्था किङ्कणी क्षुद्रघण्टिका । नूपुरं तु तुलाकोटिः पादत: कटकाङ्गदे मञ्जीरं हंसकं शिञ्जिन्यंशुकं वस्त्रमम्बरम् । सिचयो वसनं चीराच्छादौ सिक् चेलवाससी पटः प्रोतोऽञ्चलोऽस्यान्तो वर्तिर्वस्तिश्च तद्दशाः । पत्रोणं धौतकौशेयमुष्णीषो मूर्धवेष्टनम् तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् । त्वक्फलकृमिरोमभ्य: संभवात् तच्चतुर्विधम् क्षौमकार्पासकौशेयराङ्कवादिविभेदतः । क्षौमं दुकूलं दुगूलं स्यात्कार्पासं तु बादरम् कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् । कम्बलः पुनरूर्णायुराविकौरभ्ररल्लकाः नवं वासोऽनाहतं स्यात्तन्त्रकं निष्प्रवाणि च । प्रच्छादनं प्रावरणं सव्यानं चोत्तरीयकम् वैकक्षे प्रावारोत्तरासङ्गौ बृहतिकाऽपि च । वराशिः स्थूलशाट: स्यात्परिधानं त्वधोंऽशुकम् अन्तरीयं निवसनमुपसंव्यानमित्यपि । तद्ग्रन्थिरुच्चयो नीवी वरस्त्र्यधौरुकांशुकम् चण्डातकं चलनकश्चलनी त्वितरस्त्रियाः। चोल: कञ्चलिका कृर्पासकोऽङ्गिका च कञ्चुके शाटी चोट्यथ नीशारो हिमवातापहांशुके। कच्छा कच्छाटिका कक्षा परिधानापराञ्चले कक्षापटस्तु कौपीनं समौ नक्तककर्पटौ । निचोलः प्रच्छदपटो निचुलश्चोत्तरच्छदः
॥ ३३५ ॥
।। ३३६ ॥
॥ ३३७॥
॥ ३३८ ॥
॥ ३३९ ॥
॥ ३४० ॥
५७
For Private And Personal Use Only