________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३१७ ॥
॥ ३१८ ॥
॥ ३१९ ॥
॥ ३२० ॥
।। ३२१ ॥
॥ ३२२ ॥
सन्दर्भो रचना गुम्फः श्रन्थनं ग्रन्थनं समा । तिलके तमालपत्रचित्रपुण्ड्रविशेषकाः आपीडशेखरोत्तंसावतंसाः शिरसः स्रजि । उत्तरौ कर्णपूरेऽपि पत्रलेखा तु पत्रतः भङ्गिवल्लिलताऽङ्गुल्यः पत्रपाश्या ललाटिका। वालपाश्या पारितथ्या कर्णिका कर्णभूषणम् ताडङ्कस्तु ताडपत्रं कुण्डलं कर्णवेष्टकः । उत्क्षिप्तिका तु कर्मान्दुर्बालिका कर्णपृष्ठगा ग्रैवेयकं कण्ठभूषा लम्बमाना ललन्तिका। प्रालम्बिका कृता हेम्नोर:सूत्रिका तु मौक्तिकैः हारो मुक्तातः प्रालम्बस्रक्कलापावलीलताः । देवच्छन्दः शतं साष्टं त्विन्द्रच्छन्दः सहस्रकम् तदर्धं विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् । अर्धं रश्मिकलापोऽस्य द्वादश त्वर्धमाणवः द्विादशार्धगुच्छ: स्यात्पञ्चहारफलं लताः । अर्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दराः अपि गोस्तनगोपुच्छावर्धमधु यथोत्तरम् । इति हारा यष्टिभेदादेकावल्येकयष्टिका कण्ठिकाऽप्यथ नक्षत्रमाला तत्सङ्ख्यमौक्तिकैः । केयूरमङ्गदं बाहुभूषाऽथ करभूषणम् कटको वलयं पारिहार्यावापौ च कङ्कणम् । हस्तसूत्रं प्रतिसर ऊर्मिका त्वङ्गुलीयकम् सा साक्षराऽङ्गुलिमुद्रा कटिसूत्रं तु मेखला । कलापो रसना सारसनं काञ्ची च सप्तकी
॥ ३२३ ॥
॥ ३२४॥
॥ ३२५ ॥
॥ ३२६ ॥
।। ३२७ ॥
॥३२८॥
પ૬
For Private And Personal Use Only