________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कालागरुः काकतुण्डः श्रीखण्डं रोहणद्रुमः । गन्धसारो मलयजश्चन्दने हरिचन्दने तैलपणिकगोशीर्षो पत्राङ्गं रक्तचन्दनम् । कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका जातिकोशं जातिफलं कर्पूरो हिमवालुका । घनसारः सिताभ्रश्च चन्द्रोऽथ मृगनाभिजा मृगनाभिर्मृगमदः कस्तूरी गन्धधूल्यपि । कश्मीरजन्म घुसृणं वर्णं लोहितचन्दनम् वाह्लीकं कुङ्कुमं वह्निशिखं कालेयजागुडे । सङ्कोचपिशुनं रक्तं धीरं पीतनदीपने
लवङ्गं देवकुसुमं श्रीसंज्ञमथ कोलकम् । कक्कोलकं कोशफलं कालीयकं तु जापकम् यक्षधूपो बहुरूपः सालवेष्टोऽग्निवल्लभः । सर्जमणिः सर्जरसो रालः सर्वरसोऽपि च धूपो वृकात् कृत्रिमाच्च तुरुष्कः सिहपिण्डकौ । पायसस्तु वृक्षधूपः श्रीवास: सरलद्रवः स्थानात् स्थानान्तरं गच्छन् धूपो गन्धपिशाचिका । स्थासकस्तु हस्तबिम्बमलङ्कारस्तु भूषणम् परिष्काराभरणे च चूडामणिः शिरोमणिः । नायकस्तरलो हारान्तर्मणिर्मुकुटं पुनः
Acharya Shri Kailassagarsuri Gyanmandir
मौलिः किरीटं कोटीरमुष्णीषं पुष्पदाम तु । मूर्ध्नि माल्यं माला स्रक् च गर्भकः केशमध्यगम् प्रभ्रष्टकं शिखालम्बि पुरो न्यस्तं ललामकम् । तिर्यग्वक्षसि वैकक्षं प्रालम्बमृजुलम्बि यत्
૫૫
For Private And Personal Use Only
॥ ३०५ ॥
॥ ३०६ ॥
॥ ३०७ ॥
॥ ३०८ ॥
॥ ३०९ ॥
॥ ३१० ॥
॥ ३११ ॥
॥ ३१२ ॥
॥ ३१३ ॥
॥ ३१४ ॥
।। ३१५ ।।
॥ ३१६ ॥