SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २२१ ।। ।। २२२॥ ।। २२३ ॥ ॥ २२४ ॥ ॥ २२५ ॥ ॥ २२६ ॥ पितामहस्तस्य पिता तत्पिता प्रपितामहः । मातुर्मातामहाद्येवं माताऽम्बा जननी प्रसूः सवित्री जनयित्री च कृमिला तु बहुप्रसूः । धात्री तु स्यादुपमाता वीरमाता तु वीरसूः श्वश्रूर्माता पतिपत्न्योः श्वशुरस्तु तयोः पिता। पितरस्तु पितुर्वंश्या मातुर्मातामहाः कुले पितरौ मातापितरौ मातरपितरौ पिता च माता च । श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च भ्राता च भगिनी चापि भ्रातरावथ बान्धवः । स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च निजः पुनः आत्मीयः स्वः स्वकीयश्च सपिण्डास्तु सनाभयः । तृतीयाप्रकृतिः पण्ड: षण्डः क्लीबो नपुंसकम् इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः । मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्मणी । कलेवरं शरीरोऽस्मिन्नजीवे कुणपं शवः मृतकं रुण्डकबन्धौ त्वपशीर्षे क्रियायुजि । वयांसि तु दशाः प्रायाः सामुद्रं देहलक्षणम् एकदेशे प्रतीकोऽङ्गावयवापघना अपि । उत्तमाङ्ग शिरो मूर्धा मौलिर्मुण्डं कमस्तके वराङ्गं करणत्राणं शीर्ष मस्तिकमित्यपि । तज्जा केशास्तीर्थवाकाश्चिकुराः कुन्तला: कचा: वालाः स्युस्तत्पराः पाशो रचना भार उच्चयः । हस्तः पक्ष: कलापश्च केशभूयस्त्ववाचकाः ॥ २२७ ॥ ।। २२८ ॥ ॥ २२९ ॥ ।। २३० ॥ ॥ २३१ ॥ ।। २३२ ॥ ४८ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy