________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २०९ ॥
॥ २१०॥
॥ २११ ॥
।। २१२ ॥
॥ २१३॥
।। २१४॥
पैतृष्वसेयः स्यात्पैतृष्वस्त्रीयस्तुक् पितृष्वसुः । मातृष्वत्रीयस्तुग् मातृष्वसुर्मातृष्वसेयवत् विमातृजो वैमात्रेयो द्वैमातुरो द्विमातृजः । सत्यास्तु तनये सामातुरवद् भाद्रमातुरः सौभागिनेयकानीनौ सुभगाकन्ययोः सुतौ । पौनर्भवपारस्त्रैणेयौ पुनर्भूपरस्त्रियोः दास्या दासेरदासेयो नाटेरस्तु नटीसुतः । बन्धुलो बान्धकिनेयः कौलटेरोऽसतीसुतः स तु कौलटिनेयः स्याद्यो भिक्षुकसतीसुतः । द्वावप्येतौ कौलटेयौ क्षेत्रजो देवरादिजः स्वजाते त्वौरसोरस्यौ मते भर्तरि जारजः । गोलकोऽथामृते कुण्डो भ्राता तु स्यात्सहोदरः समानोदर्यसोदर्यसगर्भसहजा अपि। सोदरश्च स तु ज्येष्ठः स्यात्पित्र्यः पूर्वजोऽग्रजः जघन्यजे यविष्ठः स्यात्कनिष्ठोऽवरजोऽनुजः । स यवीयान् कनीयांश्च पितृव्यश्यालमातुला: पितुः पल्याश्च मातुश्च भ्रातरो देवृदेवरौ । देवा चावरजे पत्युर्जामिस्तु भगिनी स्वसा ननान्दा तु स्वसा पत्युननन्दा नन्दिनीत्यपि । पत्न्यास्तु भगिनी ज्येष्ठा ज्येष्ठश्वश्रूः कुली च सा कनिष्ठा श्यालिका हाली यन्त्रणी केलिकुञ्चिका। केलिर्द्रवः परीहास: क्रीडा लीला च नर्म च देवनं कूर्दनं खेला ललनं वर्करोऽपि च । वसा तु जनकस्तातो बीजी जनयिता पिता
॥ २१५ ॥
।। २१६॥
।। २१७॥
|| २१८॥
।। २१९ ॥
|| २२० ॥
४७
For Private And Personal Use Only