________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४९ ॥
॥ १५० ।।
।। १५१ ।।
॥ १५२॥
।। १५३॥
॥१५४ ॥
कुलिकस्तु कुलश्रेष्ठी सभिको द्यूतकारकः । कितवो द्यूतकृद् धूर्तोऽक्षधूर्तश्चाक्षदेविनि दुरोदरं कैतवं च द्यूतमक्षवती पणः । पाशकः प्रासकोऽक्षश्च देवनस्तत्पणो ग्लहः अष्टापदः शारिफलं शारः शारिश्च खेलनी । परिणायस्तु शारीणां नयनं स्यात्समंततः समाह्वयः प्राणिद्यूतं व्यालग्राह्याहितुण्डिकः । स्यान्मनोजवसस्ताततुल्य: शास्ता तु देशकः सुकृती पुण्यवान् धन्यो मित्रयुमित्रवत्सलः । क्षेमंकरो रिष्टताति: शिवताति: शिवंकरः श्रद्धालुरास्तिक: श्राद्धो नास्तिकस्तद्विपर्यये । वैरङ्गिको विरागार्हो वीतदम्भस्त्वकल्कन: प्रणाय्यो संमतोऽन्वेष्टानुपद्यथ सह: क्षमः । शक्तः प्रभूष्णुर्भूतात्तस्त्वाविष्टः शिथिलः श्लथ: संवाहकोऽङ्गमर्दः स्यान्नष्टबीजस्तु निष्कलः । आसीन उपविष्टः स्यादूर्ध्व ऊर्ध्वंदमः स्थितः अध्वनीनोऽध्वगोऽध्वन्य: पान्थः पथिकदेशिकौ । प्रवासी तद्गणो हारिः पाथेयं शम्बलं समे । जङ्घालोऽतिजवो जङ्घाकरिको जाङ्घिको जवी। जवनस्त्वरिते वेगे रयो रंहस्तरः स्यदः जवो वाजः प्रसरश्च मन्दगामी तु मन्थरः । कामंगाम्यनुगामीनोऽत्यन्तीनोऽत्यन्तगामिनि सहायोऽभिचरो नोश्च जीविगामिचरप्लवाः । सेवकोऽथ सेवा भक्तिः परिचर्या प्रसादना
॥ १५५ ॥
॥ १५६ ॥
॥ १५७ ॥
॥ १५८॥
॥ १५९ ॥
॥ १६० ॥
૪૨
For Private And Personal Use Only