SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्लिन्ननेत्रे चिल्लचुल्लौ पिल्लोऽथाशयुगर्शसः । मूर्च्छिते मूर्तमूर्छालौ सिमलस्तु किलासिनि पित्तं मायुः कफः श्लेष्मा बलाश: स्नेहभूः खटः । रोगो रुजा रुगातङ्को मान्द्यं व्याधिरपाटवम् आम आमय आकल्यमुपतापो गदः समाः । क्षयः शोषो राजयक्ष्मा यक्ष्माऽथ क्षुत्क्षुतं क्षवः कासस्तु क्षवथुः पामा खसः कच्छूर्विचचिका । कण्डूः कण्डूयनं खर्जूः कण्डूयाऽथ क्षतं व्रण: अरुरीर्मं क्षणनुश्च रूढव्रणपदं किणः । श्लीपदं पादवल्मीकः पादस्फोटये विपादिका स्फोटक: पिटको गण्डः पृष्ठग्रन्थिः पुनर्गडुः । श्वित्रं स्यात् पाण्डुरं कुष्ठं केशघ्नं त्विन्द्रलुप्तकम् सिम किलासं त्वक्पुष्पं सिध्मं कोठस्तु मण्डलम् । गलगण्डो गण्डमालो रोहिणी तु गलाङ्कुरः हिक्का हेक्का च हल्लासः प्रतिश्यायस्तु पीनसः । शोथस्तु श्वयथुः शोफे दुर्नामाऽर्शो गुदाङ्कुरः छद प्रच्छर्दिका छर्दिर्वमर्धुवमनं वमिः । गुल्मः स्यादुदरग्रन्थिरुदावर्त्तो गुदग्रहः गतिर्नाडीव्रणे वृद्धिः कुरण्डश्चाण्डवर्धने । अश्मरी स्यान्मूत्रकृच्छ्रे प्रमेहो बहुमूत्रता आनाहस्तु विबन्धः स्याद् ग्रहणीरुक् प्रवाहिका । व्याधिप्रभेदा विद्रधिभगन्दरज्वरादयः दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः । रोगहार्यगदङ्कारो भेषजं तन्त्रमौषधम् Acharya Shri Kailassagarsuri Gyanmandir ४० For Private And Personal Use Only ॥ १२५ ॥ ॥ १२६ ॥ ॥ १२७ ॥ ॥ १२८ ॥ ।। १२९ ॥ ॥ १३० ॥ ॥ १३१ ॥ ॥ १३२ ॥ ॥ १३३ ॥ ॥ १३४ ॥ ॥ १३५ ॥ ॥ १३६ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy