________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११३॥
॥ ११४॥
।। ११५ ॥
॥११६ ॥
।। ११७॥
।। ११८ ॥
निर्दिग्धो मांसलञ्चोपचितोऽथ दुर्बलः कृशः । क्षामः क्षीणस्तनुश्छातस्तलिनामांसपेलवाः पिचिण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिकतुन्दिलाः । उदर्युदरिले विखविखुविना अनासिके नतनासिकेऽवनाटोऽवटीटोऽवभ्रटोऽपि च। खरणास्तु खरणसो नःक्षुद्रः क्षुद्रनासिकः खुरणाः स्यात्खुरणस उन्नसस्तूग्रनासिकः । पङ्गुः श्रोणः खलतिस्तु खल्वाट ऐन्द्रलुप्तिकः शिपिविष्टो बभ्ररथ काणः कनन एकद्दक् । पृश्निरल्पतनौ कुब्जे गडुलः कुकरे कुणिः निखर्वः खट्टनः खर्वः खर्वशाखश्च वामनः । अकर्ण एडो बधिरो दुश्चर्मा तु द्विनग्नकः वण्डश्च शिपिविष्टश्च खोडखोरौ तु खजके । विकलाङ्गस्तु पोगण्ड ऊर्ध्वज़ुरूर्वजानुकः ऊर्ध्वज्ञश्चाप्यथ प्रजुप्रज्ञौ विरलजानुके। संजुसंज्ञौ युतजानौ वलिनो वलिभः समौ उग्रदन् दन्तुरः स्यात् प्रलम्बाण्डस्तु मुष्करः । अन्धो गताक्ष उत्पश्य उन्मुखोऽधोमुखस्त्ववाङ् मुण्डस्तु मुण्डित: केशी केशवः केशिकोऽपि च । वलिर: केकरो वृद्धनाभौ तुण्डिलतुण्डिभौ आमयाव्यपटुग्लानो ग्लास्नुर्विकृत आतुरः । व्याधितोऽभ्यमितोऽभ्यान्तो दर्दुरोगी तु दर्गुणः पामनः कच्छुरस्तुल्यौ सातिसारोऽतिसारकी। वातकी वातरोगी स्यात् श्लेष्मलःश्लेष्मणः कफी
॥ ११९ ॥
॥ १२० ॥
॥ १२१ ॥
॥१२२ ॥
॥ १२३ ॥
॥ १२४ ॥
36
For Private And Personal Use Only