SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१०१ ॥ ॥ १०२॥ ॥ १०३ ।। ॥ १०४ ॥ ॥ १०५ ॥ ॥ १०६॥ गुणैः प्रतीते त्वाहतलक्षणः कृतलक्षणः । निर्लक्षणस्तु पाण्डुरपृष्ठ: सङ्कसुकोऽस्थिरे तूष्णींशीलस्तु तूष्णीको विवशोऽनिष्टदुष्टधीः । बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः संदानित: संयतश्च स्यादुद्दानं तु बन्धनम् । मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः प्रतिक्षिप्तोऽधिक्षिप्तोऽवकृष्टनिष्कासितौ समौ। आत्तगन्धेऽभिभूतोऽपध्वस्ते न्यकृतधिकृतौ निकृतस्तु विप्रकृतो न्यक्कारस्तु तिरस्क्रिया। परिभावो विप्रकारः परापर्यभितो भव: अत्याकारो निकारश्च विप्रलब्धस्तु वञ्चितः । स्वप्नक् शयालुर्निद्रालु—णिते प्रचलायित: निद्राणः शयितः सुप्तो जागरूकस्तु जागरी । जागर्या स्याज्जागरणं जागरा जागरोऽपि च विष्वगञ्चति विष्वव्यङ् देवव्यङ् देवमञ्चति । सहाञ्चति तु सध्यङ् स्यात्तिर्यङ् पुनस्तिरोऽञ्चति संशयालुः संशयिता गृहयालुर्ग्रहीतरि । पतयालुः पातुकः स्यात्समौ रोचिष्णुरोचनौ दक्षिणार्हस्तु दक्षिण्यो दक्षिणीयोऽथ दण्डितः । दापितः साधितोय॑स्तु प्रतीक्ष्यः पूजितेर्हितः नमस्यितो नमसितापचितावञ्चितोऽर्चितः । पूजाऽर्हणासपर्याऽर्चा उपहारबली समौ विक्लवो विह्वलः स्थूल: पीवा पीनश्च पीवरः । चक्षुष्यः सुभगो द्वेष्योऽक्षिगतोऽथांसलो बली ॥ १०७॥ ॥ १०८ ॥ ॥ १०९ ॥ ।। ११० ॥ ॥ १११ ॥ || ११२ ॥ 3८ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy