________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६५॥
॥६६॥
॥६७॥
॥ ६८॥
॥ ६९ ॥
॥ ७० ॥
भृष्टा यवाः पुनर्धाना धानाचूर्णं तु सक्तवः । पृथुकश्चिपिटस्तुल्यौ लाजाः स्युः पुनरक्षता: गोधूमचूर्णे समिता यवक्षोदे तु चिक्कसः । गुड इक्षुरसक्वाथ: शर्करा तु सितोपला सिता च मधुधूलिस्तु खण्डस्तद्विकृती पुनः । मत्स्यण्डी फाणितं चापि रसालायां तु माजिता शिखरिण्यथ यूयूषो रसो दुग्धं तु सोमजम् । गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः पयस्यं घृतदध्यादि पेयूषोऽभिनवं पयः । उभे क्षीरस्य विकृती किलाटी कूचिकाऽपि च पायसं परमान्नं च क्षैरेयी क्षीरजं दधि । गोरसश्च तदघनं द्रप्सं पत्रलमित्यपि घृतं हविष्यमाज्यं च हविराघारसर्पिषी । ह्योगोदोहोद्भवं हैयङ्गवीनं शरजं पुनः दधिसारं तकसारं नवनीतं नवोद्धतम् । दण्डाहते कालशेयघोलारिष्टनि गोरस: रसायनमथार्धाम्बूदश्वित् श्वेतं समोदकम् । तकं पुनः पादजलं मथितं वारिवर्जितम् सापिकं दाधिकं सर्पिर्दधिभ्यां संस्कृतं क्रमात् । लवणोदकाभ्यांतुदकलावणिकमुदश्विति औदश्वितमौदश्वित्कं लवणे स्यात्तु लावणम् । पैठरोख्ये उखासिद्धे प्रयस्तं तु सुसंस्कृतम् पक्वे राद्धं च सिद्धं च भृष्टं पक्वं विनाऽम्बुना । शृष्टामिषं भटित्रं स्याभूतिर्भरूटकं च तत्
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
॥ ७४ ॥
|| ७५ ॥
॥ ७६।।
૩૫
For Private And Personal Use Only