________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५३॥
॥ ५४॥
॥ ५५ ॥
॥५६॥
।। ५७ ॥
॥ ५८॥
उत्पतिष्णुस्तूत्पतिताऽलंकरिष्णुस्तु मण्डनः । भविष्णुर्भविता भूष्णुः समौ वर्तिष्णुवर्तनौ विसृत्वरो विसृमरः प्रसारी च विसारिणि । लज्जाशीलोऽपत्रपिष्णुः सहिष्णुः क्षमिता क्षमी तितिक्षुः सहनः क्षन्ता तितिक्षा सहनं क्षमा । ईर्ष्यालुः कुहनोऽक्षान्तिा क्रोधी तु रोषणः अमर्षणः क्रोधनश्च चण्डस्त्वत्यन्तकोपनः । बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः बुभुक्षायामशनाया जिघत्सा रोचको रुचिः । पिपासुस्तृषितस्तृष्णक् तृष्णा तर्षोपलासिका पिपासा तृट् तृषोदन्या धीति: पानेऽथ शोषणम् । रसादानं भक्षकस्तु घस्मरोऽद्मर आशितः भक्तमन्नं कूरमन्धो भिस्सा दीदिविरोदनः । अशनं जीवनकं च याजो वाजः प्रसादनम् भिस्सय दग्धिका सर्वरसाग्रं मण्डमत्र तु । दधिजे मस्तु भक्तोत्थे निःस्रावाचाममासराः श्राणा विलेपी तरला यवागूरुष्णिकाऽपि च । सूपः स्यात्प्रहितं सूदो व्यञ्जनं तु घृतादिकम् तुल्यौ तिलान्ने कृसरत्रिसरावथ पिष्टकः । पूपोऽपूपः पूलिका तु पोलिकापोलीपूपिकाः पूपल्यथेषत्पक्वे स्युरभ्यूषाभ्योषपौलयः । निष्ठानं तु तेमनं स्यात्करम्भो दधिसक्तवः घृतपूरो घृतवर: पिष्टपूरश्च घार्तिकः । चमसी पिष्टवतिः स्याद्वटकस्त्ववसेकिमः
॥ ५९॥
॥ ६०॥
।। ६१ ॥
।। ६२ ।।
1॥६४।
३४
For Private And Personal Use Only