________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४१॥
॥४२॥
॥ ४३ ॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
व्यंसक: कुहको दाण्डाजिनिको मायिजालिकौ । माया तु शठता शाठ्यं कुसृतिनिकृतिश्च सा कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् । व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटि: कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् । व्यलीकमतिसंधानं साधौ सभ्यार्यसज्जना: दोषैकदृग् पुरोभागी कर्णेजपस्तु दुर्जनः । पिशुन: सूचको नीचो द्विजिह्वो मत्सरी खलः व्यसनास्तूिपरक्तश्चोरस्तु प्रतिरोधकः । दस्युः पाटच्चरः स्तेनस्तस्कर: पारिपन्थिकः परिमोषिपरास्कन्धैकागारिकमलिम्लुचाः । यः पश्यतो हरेदर्थं स चौरः पश्यतोहरः चौर्यं तु चौरिका स्तेयं लोप्नं त्वपहतं धनम् । यद्भविष्यो दैवपरोऽथालस्यः शीतकोऽलस: मन्दस्तुन्दपरिमृजोऽनुष्णो दक्षस्तु पेशलः । पटूष्णोष्णकसूत्थानचतुराश्चाथ तत्परः आसक्तः प्रवणः प्रहः प्रसितश्च परायणः । दातोदारः स्थूललक्षदानशौण्डौ बहुप्रदे दानमुत्सर्जनं त्याग: प्रदेशनविसर्जने । विहायितं वितरणं स्पर्शनं प्रतिपादनम् विश्राणनं निर्वपणमपवर्जनमंहतिः । अर्थव्ययज्ञः सुकलो याचकस्तु वनीपकः मार्गणोऽर्थी याचनकस्तर्कुकोऽथार्थनैषणा। अर्दना प्रणयो याच्या याचनाऽध्येषणा सनिः
॥४७॥
।। ४८ ॥
॥ ४९ ॥
॥ ५० ॥
।। ५१॥
॥५२॥
33
For Private And Personal Use Only