________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मृगव्यचव्ये च वणिज्यवीर्यनासीरगात्रापरमन्दिराणि। तमिस्रशस्त्रे नगरं मसूरत्वक्षीरकादम्बरकाहलानि ॥ १२७॥ स्थालीकदल्यौ स्थलजालपित्तला गालोयुगल्यौ बडिशं च छर्दि च । अलाबुजम्बूडुरुषः सरस्सदो रोदोऽर्चिषी दाम गुणे त्वयट तयट्
॥ १२८॥ स्वतस्त्रिलिङ्गः सरकोऽनुतर्षे शललः शले । करकोऽब्दोपले कोशः शिम्बा खड्गपिधानयोः ॥ १२९ ॥ जीवः प्राणेषु केदारे वलजः पवने खलः । बहुलं वृत्तनक्षत्रपुराद्याभरणाभिधाः
॥ १३०॥ भल्लातक आमलको हरीतकबिभीतकौ । तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ
॥ १३१ ।। पट: पुटो वटो वाट: कपाटशकटौ कटः । पेटो मठः कुण्डनीडविषाणास्तूणकङ्कतो
।। १३२॥ मुस्तकुथेङ्गुदजृम्भदाडिमाः पिठरप्रतिसरपात्रकन्दराः । नखरो वल्लूरो दर: पुरश्छत्रकुवलमृणालमण्डला: ॥१३३ ॥ नालप्रणालपटलार्गलशृङ्खलकन्दलाः । पूलावहेलौ कलशकटाहौ षष्टिरेण्विषु
॥ १३४ ॥ परलिङ्गो द्वन्द्वोंऽशी डेऽर्थो वाच्यवदपत्यमिति नियताः । अस्त्यारोपाभावे गुणवृत्तेरा श्रयाद् वचनलिङ्गे ।। १३५ ॥ प्रकृतेलिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित् । प्रकृतिर्हरीतक्यादिर्न लिङ्गमतिवर्त्तते
॥१३६ ॥ वचनं तु खलतिकादिर्बह्वाऽत्येति पूर्वपदभूता। स्त्रीपुंनपुंसकानां सहवचने स्यात् परं लिङ्गम्
॥ १३७ ॥
3४८
For Private And Personal Use Only