________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कमलं मलं मुसलसालकुण्डलाः कललं नलं निगलनीलमङ्गलाः
॥११५॥ काकोलहलाहलौ हलं कोलाहलकङ्कालवल्कलाः । सौवर्चलधूमले फलं हालाहलजम्बालखण्डलाः लाङ्गलगरलाविन्द्रनीलगाण्डीवगाण्डिवाः । उल्वः पारशवः पार्थापूर्वत्रिदिवताण्डवाः
॥ ११७॥ निष्ठेवः प्रग्रीवः शरावरावौ भावक्लीबशवानि । दैवः पूर्वः पल्लवनल्वौ पाशं कुलिशं कर्कशकोशौ ॥११८ ॥ आकाशकाशकणिशाङ्कुशशेषवेषोष्णीषाम्बरीषविषरोहिषमाषमेषाः । प्रत्यूषयूषमथ कोषकरीषकर्षवर्षामिषा रसबुसेक्कसचिक्कसाश्च॥ ११९ ॥ कर्पास आसो दिवसावतंसवीतंसमांसाः पनसोपवासौ। निर्यासमासौ चमसांसकांसस्नेहानि बर्हो गृहगेहलोहाः ॥ १२० ॥ पुण्याहदेहौ पटहस्तनूरुहो लक्षाररिस्थाणुकमण्डलूनि च । चाटुश्चटुर्जन्तु कशिप्वणुस्तथा जीवातु कुस्तुम्बुरु जानु सानु च ।। १२१ ।। कम्बुः सक्तुर्वगुरुर्वास्तुर्पलाण्डुहिङ्गुः शिगुर्दोस्तितउ: शीध्वथ भूमा। वेम प्रेम ब्रह्म गरुल्लोम विहायः काष्ठीवत्पक्ष्मधनुर्नाममहिम्नी।। १२२ ।। स्त्रीक्लीबयोर्नखं शुक्तौ विश्वं मधुकमौषधे । माने लक्षं मधौ कल्यं कोडोऽङ्के तिन्दुकं फले ॥१२३ ॥ तरलं यवाग्वां पुष्पे पाटलं पटलं चये। वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने
॥ १२४॥ अर्द्धपूर्वपदो नावष्ट्यणक-नटौ क्वचित् । चोराद्यमनोज्ञाद्यकञ् कथानककशेरुके
॥ १२५॥ वंशिकवक्रोष्ठिककन्यकुब्जपीठानि नक्तमवहित्थम् । रशनं रसनाच्छोदनशुम्बं तुम्बं महोदयं कांस्यम् ॥ १२६॥
3४८
For Private And Personal Use Only