________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रकचकवचकूर्चार्धर्चपुच्छोञ्छकच्छा व्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च
॥ ९८ ॥ ध्वजमलयजकूटा: कालकूटारकूटौ कवटकपटखेटाः कर्पटः पिष्टलोष्टौ । नटनिकटकिरीटाः कर्बटः कुक्कुटाट्टौ कुटजकुटविटानि व्यङ्गट: कोट्टकुष्ठौ
॥ ९९॥ कमठो वारुण्डखण्डषण्डा निगडाक्रीडनडप्रकाण्डकाण्डाः । कोदण्डतरण्डमण्डमुण्डा दण्डाण्डौ दृढवारबाणबाणाः ॥१०० ॥ कर्षापणः श्रवणपक्कणकङ्कणानि द्रोणापराह्णचरणानि तृणं सुवर्णम् । स्वर्णव्रणौ वृषणभूषणदूषणानि भाणस्तथा किणरणप्रवणानि चूर्णः तोरणपूर्तनिकेतनिवाता: पारतमन्तयुतप्रयुतानि ।। श्वेडितमक्षतदैवतवृत्तैरावतलोहितहस्तशतानि ॥ १०२ ॥ व्रतोपवीतौ पलितो वसन्तध्वान्तायुतद्यूतघृतानि पुस्तः । शुद्धान्तबुस्तौ रजतो मुहूर्तद्वियूथयूथानि वरुथगूथौ ॥ १०३ ।। प्रस्थं तीर्थं प्रोथमलिन्दः ककुदः कुकुदाष्टापदकुन्दाः । गुददोहदकुमुदच्छदकन्दाधुंदसौधमथोत्सेधकबन्धौ ॥१०४ ॥ श्राद्धायुधान्धौषधगन्धमादनप्रस्फोटना लग्नपिधानचन्दनाः । वितानराजादनशिश्नयौवनापीनोदपानासनकेतनाशनम् ॥१०५ ।। नलिनपुलिनमौना वर्धमानः समानौदनदिनशतमाना हायनस्थानमानाः । धननिधनविमानास्ताडनस्तेनवस्ना भवनभुवनयानोद्यानवातायनानि
।। १०६॥
3४५
For Private And Personal Use Only