________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| २३३॥
॥ २३४ ॥
॥ २३५ ॥
|| २३६ ।।
॥ २३७ ।।
॥ २३८ ॥
प्रबोधस्तु विनिद्रत्वं ग्लानिस्तु बलहीनता। दैन्यं कार्पण्यं श्रमस्तु क्लमः क्लेश: परिश्रमः प्रयासायासव्यायामा उन्मादश्चित्तविप्लवः । मोहो मौढ्यं चिन्ता ध्यानममर्षः क्रोधसंभवः गुणो जिगीषोत्साहवान् त्रासस्त्वाकस्मिकं भयम् । अपस्मारः स्यादावेशो निर्वेदः स्वावमाननम् आवेगस्तु त्वरिस्तूर्णिः संवेगः संभ्रमस्त्वरा । वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् अध्याहारस्तर्क ऊहोऽसूयाऽन्यगुणदूषणम् । मृतिः संस्था मृत्युकालौ परलोकगमोऽत्ययः पञ्चत्वं निधनं नाशो दीर्घनिद्रा निर्मीलनम् । दिष्यन्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा मरको मारिस्त्रयस्त्रिंशदमी व्यभिचारिणः । स्युः कारणानि कार्याणि सहचारीणि यानि च रत्यादे: स्थायिनो लोके तानि चेत्काव्यनाट्ययोः । विभावा अनुभावाश्च व्यभिचारिण एव च व्यक्तः स तैर्विभावाद्यैः स्थायी भावो भवेद्रसः । पात्राणि नाट्येऽधिकृतास्तत्तद्वेषस्तु भूमिका शैलूषो भरतः सर्वकेशी भरतपुत्रकः । धर्मी पुत्रो रङ्गजायाऽऽजीवो रङ्गावतारक: नटः कृशाश्वी शैलाली चारणस्तु कुशीलवः । भ्रभ्रुभ्रूभृपर: कुंसो नटः स्त्रीवेषधारकः वेश्याऽऽचार्यः पीठमर्द: सूत्रधारस्तु सूचकः । नन्दी तु पाठको नान्द्याः पार्श्वस्थः पारिपार्श्विक:
॥ २३९॥
॥ २४० ॥
॥ २४१॥
॥ २४२ ॥
॥ २४३ ॥
॥ २४४॥
૨૮
For Private And Personal Use Only