________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३८२ ॥
॥ ३८३ ॥
॥ ३८४॥
॥३८५ ॥
॥ ३८६ ॥
॥ ३८७ ॥
अथ धान्ये सस्यं सीत्यं, व्रीहिः स्तम्बकरी अपि । आशौ स्यात्पाटलो व्रीहिर्गर्भपाकिनि षष्टिक: शालौ तु कलमाद्याः स्युः कलमे तु कलायकः । लोहिते रक्तशालिः स्यान्महाशालौ सुगन्धिकः यवे हयप्रियस्तार्क्ष्यशूकस्तोक्यस्त्वसौ हरित् । मङ्गल्यके स्यान्मसूरः कलाये तु सतीनकः हरेणुः खण्डिकश्चाथ, चणके हरिमन्थकः । माषे तु मदनो नन्दी, सरी बीजवरो बली मुद्गे तु प्रधनो लोभ्यो, वलाटो हरितो हरिः । पीतेऽस्मिन् वसुखण्डीरः, प्रवेलजयशारदाः कृष्णे प्रवरवासन्तहरिमन्थजशिम्बिकाः । वनमुद्गे तु वरका, निगूढककुलीनकाः खण्डिको राजमुद्गे तु, मकुष्टकमयुष्टको । गोधूमे सुमनो वल्ले, निष्पावः शितिबिम्बिकः कुलत्थे तु कालवृन्तस्ताम्रवृन्ते कुलस्थिका । आढक्यां तुवरी वर्णा, स्यात्कुल्माषे तु यावकः नीवारस्तु वनव्रीहिः, श्यामाके श्यामक: समौ । कङ्गौ तु कङ्गुनी कङ्गुः, प्रियङ्गौ पीततन्दुला सा कृष्णा मधुका रक्ता, शोधिता मुशटी शिता। पीता माधव्यथो दोला, कोद्रवः कोरदूषकः चीनके तु काककङ्गुर्यवनाले तु योनलः । जूर्णाह्वयो देवधान्यं, जोर्णाला बीजपुष्पिका शणे भङ्गा मातुलानी, स्यादुमा तु क्षमाऽतसी। गवेधुकायां गवेधुर्वन्यतिले तु जतिलः
॥ ३८८॥
॥ ३८९ ॥
॥ ३९० ॥
॥ ३९१ ॥
|| ३९२॥
334
For Private And Personal Use Only