________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्यैकादश भेदाः स्युः पुण्ड्रकान्तारकादयः । नले नड: शून्यमध्यो, गमनो नर्तको नटः
॥ ३७० ॥ अरण्यनलको रन्ध्री, पोटगलो विभीषणः । नलिनुप्मनलिका, नाकुली लेखकाञ्चिता
॥ ३७१ ॥ शरे तु मुञ्जो बाणाख्यः, स्थूलदर्भः पितामहः । गुञ्जस्तजनको भद्रमुञ्जो याजनकक्षुरः
।। ३७२॥ मुञ्जस्तु यजिको मध्ये, दृढत्वग्ब्रह्ममेखलः । अथ बालतृणे शष्पं, शुकं शालिकमङ्गुलम् ॥ ३७३ ।। तृणं स्यादर्जुनं घासे, यवसं चारि इत्यपि । दर्वायां तु शतपर्वा, भार्गवी विजया जया
॥ ३७४ ॥ मङ्गल्या स्यादलाऽनन्ता, मरी प्रतानिका रुहा। सहस्रवीर्या श्यामाङ्गो, हरिता हरिताल्यपि
॥ ३७५ ॥ श्वेतदूर्वा तु गोलोमी, शतवीर्या शता लता। गण्डदूर्वायां मुण्डाली, वारुणी शकुलाक्षक: ।। ३७६ ॥ मुस्तायां भद्रको भद्रमुस्ता राजकशेरुकः । गुन्द्री वरोहो गाङ्गेयः, कुरुविन्दोऽम्बुदाह्वयः ॥ ३७७ ॥ कुटं नटे तु कैवर्ती, मुस्तकं जीवनाह्वयम् । काण्डीरकं जीवबुध्नं, गोन गोपुरप्लवम्
॥ ३७८ ॥ शतपुष्पं दारपुरं, वानेयं परिपेलवम् । जलमुक्ता मुस्तकाभं, शैवालदलसंभवम्
।। ३७९ ॥ वीरणे तु वीरतरं वीरभद्रं समूलकम् । मूलेऽस्योशीरमभयं, समगन्धि रणप्रियम्
॥ ३८० ॥ लामज्जके तु नलदममृणालं लवं लघु । इष्टकापथकं शीघ्रं, दीर्घमूलं जलाशयम्
॥ ३८१ ।। इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे पञ्चमस्तृणकाण्डः ।
33४
For Private And Personal Use Only