________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिभिट्यां त्रपुसी वालुक्येर्वारुफ्डपत्रिका । ऊर्वारु: कर्कटीस्तत्र, फला राजादनीलता
॥ ३५९॥ छर्दनीव विषाडुश्च, तस्याः पक्वफलस्फुटी । कूर्चके शृङ्गकः सर्जो, दीर्घायुः कूर्चशीर्षक: ॥ ३६०॥ मङ्गल्यनामधेये च, जीवकः प्रियजीवकः । हस्वाङ्गको मधुरकः, प्राणकश्चिरजीव्यपि
।। ३६१ ॥ पुष्करमूले स्यान्मूलं, वीरपुष्करनामकम् । पौष्करं पुष्करजटा, कश्मीरं पद्मवर्णकम्
॥ ३६२ ॥ मस्तुगन्धायां तु गन्धा, खरपुष्पा शकम्भरा । कर्वरी बर्बरी तुङ्गी, पूतिमयूर इत्यपि
॥ ३६३ ॥ बिम्ब्यां रक्तफला गोल्हा, प्रवालफलघोषिका । ओष्ठोपमफला तुण्डी, तुण्डिका पीलुपर्ण्यपि ॥ ३६४ ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे चतुर्थः शाककाण्डः । रोहिषं कामकं पौरं, भूतिकं भूतिकत्तृणम् । सौगन्धिकं देवजग्धं, शकलिव्यामपुद्गले ॥३६५ ॥ भूस्तृणं रोहितं छत्रातिच्छत्रककटुम्बके । भूतिकं भूतपालघ्नं, माला तृणसुगन्धके
॥ ३६६ ॥ दर्भे दभ्रः खरो बहिर्वीरास्तवीक्रुधः कुशः । सारी वानीरजो गुन्द्रा, पवित्रा कुतसावपि
॥ ३६७॥ काशे स्यादिक्षुगन्धेक्षुकाण्डश्चामरपुष्पकः । वायसेक्षुः पोटगल: कासेक्षुः कोकिनां क्षमः ॥ ३६८॥ उलपू वल्वजो बालकेशी दृढलतापि च । इथू रसालो गण्डीरी, गण्डकी क्षुद्रपत्रक:
॥ ३६९॥
333
For Private And Personal Use Only