________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अम्बष्ठाऽम्लोलिका दन्तशठाटोलाम्लोलकः । नरेन्द्रमाता क्षुद्राम्ली, चतुष्पर्णी च लोणिका तन्दुलीये मेघनादस्तन्दुली तन्दुलेरकः । गण्डरीको रक्तकाण्डो विषहार्यल्पमारिषः समण्ठो तु तोयवृत्तिर्गण्डीरस्तोयमञ्जरी । समष्ठीला शोषहरी जलापा मार्गतूलकः अन्यः सुस्थलगण्डीरः, कर्बरष्टक्कदेशजः । काकमाच्यां काकमाची, काकसाा वृषायणी श्रीहस्तिन्यां तु भूरुण्डी, कुरुण्डी काश्मरीरिपुः । सुनिषण्णे सुचिपत्रः, स्वस्तिक: शिरिवारकः श्रीवारकः शितिवरो, वितुन्नः कुक्कुटः शिति । मूलके तु महाकन्दो रुचिष्यो हस्तिदन्तकः वुस्तिका नीलकण्ठश्च सेकिमो हरिपर्णकः । चाणाक्यमूलके शालमर्कटो मरुसंभवः विष्णुगुप्तमतो मिश्रः, स्थालयो मर्कटोऽपि च । हिलमोच्यां शङ्खधरा, जलब्राह्मी च मोचिका कलम्ब्यां तु शतपूर्वा, केलम्बूर्यायसी च सा कारवेल्लयां तु सुषवी, कटिल्ला मृदुपणका पटोले तु पाण्डुफल:, कुलकः कर्कशच्छदः । राजीफलः कफहरो, राजिमानमृताफलः कङ्कोटे तु किलासघ्नस्तिक्तपर्व: सुगन्धकः । कूष्माण्डके तु कर्कारः, कलिङ्गयां बहुपुत्रिका तुम्ब्यां पिण्डफलेक्ष्वाकुस्तिक्तबीजा महाफला । अलाबूः क्षत्रियवरा, कटुका लाबुनी च सा
332
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३४७ ॥
॥ ३४८ ॥
॥ ३४९ ॥
॥ ३५० ॥
॥ ३५१ ॥
।। ३५२ ।।
।। ३५३ ।।
।। ३५४ ।।
।। ३५५ ।।
।। ३५६ ।।
॥ ३५७ ॥
॥ ३५८ ॥