________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandiri
कमले नलिनं पद्ममरविन्दं कुशेशयम् । परं शतसहस्राभ्यां, पत्रं राजीवपुष्करे
॥३२४॥ बिसप्रसूनं नालीकं , तामरसं महोत्पलम् । तज्जलात्सरसः पङ्कात्, परै रुहजन्मजैः
॥ ३२५॥ पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहम् । रक्तोत्पलं कोकनदं, कैरविण्यां कुमुद्वती
॥ ३२६॥ उत्पले स्यात्कुवलयं, कुवेलं कुवलं कुवम् । श्वेते तु कुमुदं चैव, कैरवं गर्दभाह्वयम्
।। ३२७॥ नीले तु स्यादिन्दीवरं, हल्लकं रक्तसंधिकम् । सौगन्धिके तु कल्हारं, बीजकोशे वराटकः
॥ ३२८ ॥ पद्मनाले तु मृणालं [बिसिनी] तन्तुलं बिसम् । किञ्जल्के केसरं नव्यदले संवर्तिका भवेत् ।। ३२९ ।। पद्मकन्दे करहाटशिफे शालूकमौन्पले । पद्मबीजे तु पद्माक्षं, पद्मकर्कटिकेत्यपि
|| ३३० ॥ वारिपां तु पानीयवृष्टगा कुम्भिका हठः । जलशूके जलनीली, तथा शैवालशैवले
॥ ३३१॥ __इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे तृतीयो लताकाण्डः । शतपुष्पायां तु घोषा, शताह्या माधवी मिषिः । अतिच्छत्रा छत्रपुष्पाऽर्वाक्पुष्पा कारवी सहा जीरके तु कणाजाजी, जरणः कणजीरकः । कृष्णेऽस्मिन् कारवी पृथ्वी, सुगन्धा तुषवी पृथुः ॥ ३३३॥ उपकुञ्ची कुञ्चिका च, कालोपकुञ्चिकापि च । रसोने लशुनो म्लेच्छकन्दोऽरिष्ठो महौषधम्
॥ ३३४॥
॥ ३३२ ॥
330
For Private And Personal Use Only