________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विन्ताके तु रजःपुष्यो, जम्बूलः क्रमुकच्छदः । हिन्ताले तु तृणराजो, राजवृक्षो लताङ्कुरः
।। १८० ॥ ताल्यां तु मृत्युपुष्पा स्यादेकपत्रफलापि च । खर्जूरतालखर्जूरीतालीहिन्तालकेतकाः
।। १८१ ॥ क्रमुको नालिकेरश्च, स्युरेते तृणपादपाः
॥ १८२ ॥ इत्याचार्यश्रीहेमचन्द्रवीरचिते निघण्टुशेषे प्रथमो वृक्षकाण्डः । सिन्दुवारे तु निर्गुण्डी, सीन्दुको नीलसन्धिकः । शीतसहा च सुरसा, चेन्द्राणी सिन्दुवारक:
।। १८३ ।। सा नीला वनशेफाली, सुपुष्पा निलमञ्जरी। श्वेता तु श्वेतसुरसा, गोलोमा भूतकेश्यपि
॥ १८४ ॥ शेफालिकायां सुबहा, निर्गुण्डी नीलिकासुता। सुरसा रक्तवृन्ता च, श्वित्रघ्नी पुष्पवर्षिणी
।। १८५ ॥ सा तु शुक्ला भूतकेशी, सत्यनाम्नी बहुक्षमा। प्रियङ्गौ प्रियक: कङ्गः, प्रियवल्ली प्रियालता ॥१८६ ॥ विष्वक्सेना गन्धफली, कारम्भा फलिनी फली। गुन्द्रा गोवन्द्रनी श्यामा, योषाहा पर्णभेदिनी ॥ १८७ ॥ मधुरायां यष्टीमधुस्तल्लक्षणा मधुस्रवा। क्लीतकं च जलजासौ मधुपर्णी मधूलिका ।। १८८ ॥ अश्वगन्धायां तुरगी, कम्बुकाश्वावरोहकः । अश्वकन्दो बहुगन्धा, पुत्रदा कोलकर्ण्यपि
॥ १८९ ॥ मेषशृङ्गयामजशृङ्गो वर्तिका सर्पदंष्ट्रिका । सैव स्याद्दक्षिणावर्ता, वृश्चिकाला विषाणिका ।। १९० ॥ उष्ट्रधूमकपुच्छा च काली च विषघातिनी । शृङ्गी तु कर्कटशृङ्गयां, नताङ्गी शिशिरेफला
૩૧૮
For Private And Personal Use Only