________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१४४ ॥
॥ १४५ ॥
॥ १४६ ॥
।। १४७॥
॥ १४८॥
॥ १४९॥
भेदास्त्वस्य त्रयस्तत्र, षड्मन्था हस्तिवारुणी। कर्मद्यां तु कृतमाल, उदकार्यः प्रकार्यक: अङ्गारवल्यां शाङ्गस्था, कासघ्नी करतालिका । रोहीतके रोहितको, रोही दाडिमपुष्पक: रोहेडकः सदापुष्पो, रोचना प्लीहरक्तहा। कट्फले तु सोमवल्कः, कैडर्यो गोपभद्रिका कुम्भी कुमुदिका भद्रा, श्रीपर्णी भद्रवत्यपि । दाडिमे कुट्टिमः कीरवल्लभः फलपाण्डवः करको दन्तबीजश्चाघोडपुष्पे जपा जवा। धातक्यां तु धातुपुष्पा, बर्हिपुष्ष्यग्निपुष्पिका ताम्रपर्णी सुभिक्षा च, कुञ्जरा मद्यपावनी । सल्लक्यां वल्लकी हादा, सुवहा सुनवा रसा अश्वमूर्तिः कुन्दरुकी, गजभक्ष्या महेरणा । गन्धवीरा गन्धकारी, सुरभिर्वनकर्णिका एरण्डे तरुणश्चित्रो, दीर्घदण्डो व्यडम्बकः । पञ्चाङ्गुलो वर्द्धमान, आमण्डो रुवको रुवूः व्याघ्रपुच्छो व्याघ्रतलश्चञ्चुरुत्तानपत्रकः । गन्धर्वहस्तकश्चञ्चुरादण्डो हस्तिपर्णकः उरुवूको हस्तिकर्णः, शुक्लो रक्तश्च स द्विधा । किम्पाके तु महाकालः, काकर्दः काकमर्दकः कम्पिल्लके तु काम्पिल्लो, रक्ताङ्गो रक्तचूर्णकः । चन्द्राह्वयो रेचनकः, कर्कशाह्वः पटोदयः केतकच्छदनीयोऽम्बुप्रसादनफलः कतः । कार्पास्यां तु समुद्रान्ता, बदरा तुण्डिकेर्यपि
॥ १५० ॥
॥१५१ ॥
॥ १५२॥
॥ १५३ ॥
॥१५४॥
॥ १५५ ॥
૩૧૫
For Private And Personal Use Only