________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १३३॥
॥ १३४॥
॥ १३५ ॥
॥ १३६ ॥
॥ १३७॥
अङ्कोटे स्यात्पीतसारो, दीर्घकीलो निकोचकः । अङ्कोलकस्ताम्रफलो रेचको गन्धपुष्पकः भिल्लातके वीरतरुररुष्कोऽरुष्करो व्रणः । भौतिको भूतनुद्भूरिस्नेह: शोफकरो धनुः अग्निमुखी बहुपत्रो, भल्ली सूर्याग्निसंज्ञकः । अरिष्ठे स्यात्कृष्णवर्णो, रक्तबीजोऽर्थसाधनः शुभनामा शीतफेनः, फेनिलो गर्भपातनः । निम्बे तु सर्वतोभद्रः, पारिभद्रः सुतिक्तक: पिचुमन्दो यवनेष्टः, शुकेष्टः शुकमालकः । अरिष्ठो हिगुनिर्यासो, वेता नियमनोऽपि च महानिम्बे निम्बकरः, कार्मुको विषमुष्टिकः । रम्यकः क्षीबको वृक्षोऽक्षिपीलुः केशमुष्टिक: पीलौ उसी सहस्राङ्गः, शीत: करभवल्लभः । गुल्मारिर्गुडफलश्चाथास्मिंस्तु गिरिसंभवे अक्षोट: कर्परालश्च, फलस्नेहो गुहाशयः । पारावते तु साराम्लो रक्तमालः परावतः आरेवतः सारफलो महापारावतो महान् । कपोताण्डतुल्यफलो, रुद्राक्षे तु महामुनिः स तु चतुर्मुखो ब्रह्मा, द्विमुखस्तु वरार्गलः । षण्मुखस्तु कार्तिकेयः, पञ्चमुखस्तु शंकरः माधवस्त्वेकवदनो, विजयाशस्त्रधारणः । पुत्रंजीवे त्वक्षफलः, कुमारजीवनामकः कर) स्यान्नक्तमालः, पूतीकश्चिरबिल्वकः । करजः श्लीपदारिश्च, प्रकीर्णः कलिनाशनः
।। १३८॥
॥ १३९ ॥
।। १४०॥
।। १४१॥
॥१४२॥
॥ १४३॥
3१४
For Private And Personal Use Only