________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२०॥
।। १२१ ॥
॥ १२२ ॥
।। १२३ ॥
॥ १२४॥
॥ १२५ ॥
आने रसालो माकन्दः, कामाङ्गः पिकबान्धवः । वनपुष्पोऽशवश्चूतः, परपुष्टो मदोद्भवः मधुदूतो मधुफलः, सुफलो मदिरासखः । वसन्तपादपोऽसौ तु, सहकारोऽतिसौरभः क्षुद्राने स्यात्कृमितरुर्लाक्षावृक्षो जतुद्रुमः । सुकोशको घनस्कन्धः, केशाम्बुश्च सुरक्तसः टको नीलकपित्थोऽन्यो, राजपुत्रो नृपात्मजः । जम्ब्वां महाफला राजजम्बूर्नीलाम्बुजच्छदा सुगन्धिपत्रा साऽन्या तु, काकजम्बूः कुजम्बुका । उशीरपत्रा नादेयी, वैदेशी काकवल्लभा मदने श्वसनो राठः, शल्यको विषनाशकः । करहाटो मरुबकः, पिण्डी पिण्डीतकः फल: सूर्यपुत्रकर्कटको, विषगन्धो विषोदरः । मत्स्यान्तकफलो राजपुत्रक: कफवर्धनः कुब्जके कामुकं श्यामसार: फुल्लो मिसिद्रुमः । निचुले तु नदीकान्तोऽम्बुजो हिज्जुल इज्जल: गन्धपुष्पो गुच्छफलोऽनुवाक: कच्छकोल्यपि । वेतसे विदुकः शीदो, नदीकूलप्रियो रथः अभ्रपुष्पः पत्रमाली, वाणीरो, वझुलोऽपि च । स्यादम्बुवेतसे भीरु देयी बालभीरुकः विदुलो मञ्जरीनम्रः, परिव्याधो निकुञ्जकः । वरुणे गन्धवृक्षः स्यात्तिक्तशाकः कुमारक: श्वेतपुष्पः श्वेतफलस्तगालो मारुतापहः । साधुवृक्षः श्वेतवृक्षः, सेतुरश्मरिकारिपुः
॥ १२६ ॥
॥ १२७ ॥
॥ १२८॥
॥ १२९॥
॥ १३०॥
393
For Private And Personal Use Only