________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७२ ।।
॥ ७३॥
॥ ७४ ॥
।। ७५ ॥
॥ ७६ ॥
॥ ७७॥
शम्यां सक्तुकला लक्ष्मी, शिवा तुङ्गाऽग्निपादपः । अजप्रिया भस्मकाष्ठा, शंकर शिवकीलिका शिवलोमा यतफला, लोमपामविनाशिनी । मङ्गल्या शुचिपत्रा च, फले तस्यास्तु साङ्गरः इगुद्यां तापसतरुर्मार्जार: कण्टकीटकः । बिन्दुकस्तिक्तमज्जा च, पूतिपुष्पफलोऽपि च गुग्गुलौ तु पुरो दुर्गो, महिषाक्षः पलङ्कषः । जटायुः कालनिर्यासो, वासवोलूकनामकः नक्तंचर: शिवधूपः, कुम्भोलूखलकः शिवः । पारिभद्रे निम्वतरुर्मन्दारः पारिजातक: करीरे स्यात्तीक्ष्णसार:, शाकपुष्पो मृदुः फलः । मरुजन्मा गूढपत्रो, ग्रन्थिलककरावपि विककृते स्रुवावृक्षो, ग्रन्थिलः स्वादुकण्टकः । केकणि काकपादश्च, व्याघ्रपादोऽपकण्टक: बिल्वे महाफलः श्रूयाह्वः, शलाटुः पूतिमारुतः । महाकपित्थं शाण्डिल्यः, शैलूषो नीलमल्लिका श्रीवास: श्रीफलो हृद्यगन्धो मालूरकर्कटौ । हरीतक्यां जया पथ्या, हैमवत्यभयाऽमृता कायस्था पूतना चेतक्यव्यथा श्रेयसी शिवा। बिभीतके भूतवासो, वासन्तोऽक्षो वहेडकः संवर्तकः कर्षफलः, कल्को हार्यः कलिद्रुमः । कर्षो दैत्यो मधुबीजो, धर्मद्वेषी बिभेदक: आमलक्यां शिवा धात्री, वयस्था षड्रसाऽमृता । पर्वकाढ्या तिष्यफला, माकन्दी श्रीफला च सा
॥ ७८॥
॥ ७९ ॥
।। ८० ॥
॥ ८१॥
॥ ८२ ॥
॥ ८३ ॥
306
For Private And Personal Use Only