________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८४ ॥
॥८५ ।।
।। ८७ ॥
।। ८८॥
॥ ८९ ॥
अरणावग्निमन्थ: स्यात्तर्कारी वैजयन्तिका । जया जयन्ती श्रीपर्णी, कर्णिका गणिकारिका तेजोमन्थो हविर्मन्थो, नादेयी वह्निशोधनः । अरलो दुन्दको दीर्घवृन्तानतः कुटंनटः श्योनाक: शोषणो जम्बुः, शुकनासः कुटंभरः । मयूरजङ्घः कट्वङ्गः, सल्लक: प्रियजीवकः मण्डूकपर्णः पत्रोर्णो, गोपवृक्षो मुनिद्रुमः । शिग्रौ शोभाञ्जनस्तीक्ष्णगन्धो मूलकपल्लवः विद्रध्यरातिः काक्षीवो, मुखभञ्जः सुभञ्जनः । दृशोऽक्षीव: सुरङ्गी च, मोचको मधुगृञ्जनः श्वेतेऽत्र श्वेतमरिचो, रक्ते तु मधुशिग्रुकः । तिनिशे रथकृन्नेमिर्वञ्जुलो रथसाधक: दीर्घवृक्षश्चककरो, स्थनामातिमुक्तकः । अश्मगर्भः सर्वसारः, क्रमसंधारणोऽपि च पलाशे किंशुक: पर्णः, स्वरपर्णस्त्रिपत्रकः । त्रिवृन्ताख्यो रक्तपुष्पो, बीजस्नेह: समिद्वरः क्षारश्रेष्ठो वातपोथो, याज्ञिको ब्रह्मपादपः । धवे भारोद्वहो गौरः, सकटाक्षो धुरंधरः कुलावो नन्दिनश्चापि, सितः कृष्णश्च स द्विधा । श्रीपर्यों काश्मरी कृष्णा, वृन्तिका मधुपर्णिका गम्भारी सर्वतोभद्रा, कट्फला भद्रपर्णिका । विहारी कुमुदाहारी, महाकुम्भी च कश्मरी नित्यभद्रा महाभद्रा, काश्मर्यो मधुमत्यपि । सप्तच्छदे शुक्तिपर्णो, गुच्छ: पुष्पः सुवर्णकः
॥ ९० ॥
॥ ९१ ।।
॥ ९२ ॥
|| ९३ ॥
॥ ९४ ॥
3१०
For Private And Personal Use Only