________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६०॥
॥६१ ॥
।। ६२ ॥
॥६४ ॥
तावेव तु शतवेधिसहस्रवेधिनौ क्रमात् । कपित्थे वानरावासो, गन्धपत्रः कपिप्रियः पुष्पफलो दधिफलो, दधित्थग्राहिमन्मथाः । अक्षिस्यन्दो दन्तशठो, राजाम्रश्चिरपाक्यपि अश्मन्तके श्लक्ष्णपत्रः, पाषाणाबूक इन्द्रकः । अम्लपत्रस्ताम्रपत्रः, कुशली यमलच्छदः नारङ्गे स्यान्नागरङ्गस्त्वक्सुगन्धो मुखप्रियः । ऐरावतो योगसारो, योगी तकाधिवासनः खदिरे स्याद्रक्तसारः, कण्टकी दन्तधावनः । गायत्री बालपत्रश्च, जिह्वाशल्यं क्षितिक्षमः सिते तु तत्र कदर:, कार्मक: कुब्जकण्टकः । सोमवल्को नेमिवृक्षः, श्यामसार: पथिद्रुमः विट्खदिरे त्विरिमिदो, गोधास्कन्धोऽरिमेदकः । अरिमारोऽरिमः पूत्यरिमेदो मुखशोधनः शाल्मलौ तूलिनी मोचा, पिच्छिला विरजा विला। कुक्कुटी पूरणी रक्तकुसुमा घुणवल्लभा कण्टकाढ्याऽनलफली, पिच्छा तु तस्य वेष्टकः । कुशाल्मलौ शाल्मलिका, रोचनः कूटशाल्मलिः शिशिपायां महाश्यामा पिच्छिला पाण्डुरच्छदा। कृष्णसाराऽङ्गारवर्णा, गुरुरल्पा तु शिशिपा कुशिशिपा भस्मगर्भा, कपिला भस्मपिङ्गला। बदाँ कुवलिः कोलिः, कर्कन्धुः फेनिलच्छदा राष्ट्रवृद्धिकरी कोली, सौवीरी वज्रशिल्पिका। घुटा घोण्टा कोपघोण्टा, व्याघ्रगृध्रनखीत्यपि
॥६६॥
।।६७॥
||६८॥
॥ ६९॥
॥ ७० ॥
॥ ७१ ॥
30८
For Private And Personal Use Only