________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्के विकीरणोऽर्का ज्यम्भला स्फोतविच्छुरा । क्षीरार्कपर्णो राजार्के, त्वलर्को गणरूपकः एकाष्ठीलः सदापुष्पो, मन्दारश्च प्रतापसः । त्रुट्यां व्रजो महावृक्षोऽसिपत्रः स्नक्सुधा गुडा समन्तदुग्धा सीहुण्डा, शण्डेरी वक्रकण्टकः । करमर्दे करमन्दः, कराम्रकसुषेणकौ स्थलपर्केट आविग्नः, कृष्णपाकफलोऽपि च । जम्बीरे जम्भलो जम्भो, जम्भीलो दन्तहर्षण: वक्रशोधी दन्तशठो, गम्भीरो रोचनोऽपि च । करुणे तु छागलाख्यो, मल्लिकाकुसुमः प्रियः बीजपूरे बीजपूर्ण, पूरक: फलपूरक: । सुपूरको मातुलुङ्गः, केसराम्लोऽम्लकेसरः वराम्लो बीजको लुङ्गो, रुचको मध्यकेसरः । कृमिघ्नो गन्धकुसुमः, केसरी साधुपादपः मातुलुङ्गी वर्धमाना, मधुरा, मधुकुक्कुटी । मधुवल्ली पूतिपुष्पा, देवदूती महाबला आम्लिकायां चुकिकाम्ला, शुक्तिकाम्ली विकालिका । चुका चिञ्चा तिन्तिडीका, तिन्तिला गुरुपुष्पिका वृक्षाम्ले स्यादम्लवृक्षस्तिन्तिडीको महीरुहः । शाकाम्लमम्लशाकं चाम्लपूरो रक्तपूरक: अथाम्लवेतसे भीमो भेदनो रक्तपूरक: । रुधिरस्रावकश्शुकं, मांसारिर्वानिकप्रियः शाखाम्लो वेतसोऽम्लोऽम्लस्तिन्तिडीको रसाम्लकः । सशङ्खद्रावको हीनो, लौहद्रावक उत्तमः
306
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
11 82 11
॥ ४९ ॥
1140 11
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥
॥ ५४ ॥
॥ ५५ ॥
॥ ५६ ॥
॥ ५७ ॥
॥ ५८ ॥
॥ ५९ ।।