________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३६॥
॥ ३७॥
॥३८॥
॥ ३९ ॥
॥ ४०॥
॥४१॥
श्रीपुष्पं श्र्याह्वयं देवपुष्पं चन्दनपुष्पकम् । नलिकायां कपोता िनिर्मध्या शुषिरा नटी धमन्यञ्जनकेशी च, शून्या विद्रुमवल्लयपि । अतिमुक्ते मुण्डकः स्यात्पुण्ड्रको भ्रमरोत्सवः पराश्रयः सुवासन्ती, कामुको माधवी लता । पिप्पले बोधिरश्वत्थः, श्रीवृक्षश्चलपत्रक: मङ्गल्यः केशवावासः, श्यामलो द्विरदाशनः । गर्दभाण्डे कन्दरालश्छायावृक्षः कमण्डलुः प्लक्षो वटप्लवः शुङ्गी, सुपार्श्वश्चारुदर्शनः । कपीतने कपीनः स्यात्पीतनप्लवकावपि कर्पटोऽपर्कटी प्लक्षः, सतीदो लक्षणे नटी । वटे वैश्रवणावासो, न्यग्रोधो बहुपाध्रुवः स्कन्धजन्मारक्तफलः, क्षीरी शुङ्गी वनस्पतिः । उदुम्बरे जन्तुफलो, यज्ञाङ्गो हेमदुग्धकः सदाफलो वसुवृक्षः, श्वेतवल्को मशक्यपि । काकोदुम्बरिकायां तु, फाल्गुनी फल्गुवाटिका फलराजी मलभारी, फलयूर्जघनेफला। राजादने तु राजन्या, क्षोरिका प्रियदर्शनः कपिप्रियो दृढस्कन्धो, मधुराजफलो नृपः । प्रियाले तु राजवृक्षो, बहुवल्को धनुष्पुटः सन्नकद्रुः खरस्कन्धश्चारस्तापसवल्लभः । आम्रातके वर्षपाकी, कपिचूतः कपिप्रियः कपीतन: पीतनकस्तनुक्षीरोऽभ्रपाटकः । शृङ्गी कपिरसाढ्यः स्वादुष्पकलो बिभीषणः
॥ ४२ ॥
॥ ४३ ॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
॥ ४७॥
305
For Private And Personal Use Only