________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४॥
॥ २५ ॥
॥ २६ ॥
॥ २७॥
॥ २८॥
॥ २९ ॥
अथ बर्बरके श्वेतं, निर्गन्धं बर्बरोद्भवम् । स्याद्रक्तचन्दने क्षुद्रचन्दनं भास्करप्रियम् ताम्रसारं रक्तसारं, लोहितं हरिचन्दनम् । कुचन्दने तु पत्राङ्गं, पत्त(त्र)ङ्गं पट्टरञ्जनम् सुरङ्गकं रक्तकाष्ठं, पत्तूरं तिलपर्णिका । अथ द्रुमोत्पलव्याधः, परिव्याधः सुगन्धकः निर्गन्धेऽस्मिन् कर्णिकारो, निषीथः पीतपुष्पक: पुंनागे तु महानागः, केसरो रक्तकेसरः देववल्लभकुम्भीको, तुङ्गः पुरुषनामकः । अथागस्त्ये वङ्गसेनः, शुकनासो मुनिद्रुमः करवीरे कणवीरः, श्वेतपुष्पोऽश्वमारकः । प्रतिहासः शतप्राशोऽश्वारोहः कुमुदोद्भवः रक्तपुष्पेऽत्र लगुडचण्डातश्चण्डगुल्मको । कालस्कन्धस्तमाले स्यात्तापिच्छो रञ्जतो वसुः तमालपत्रे वस्त्राख्यं, रोमशं तामसं दलम् । सूक्ष्मैलायां चन्द्रबाला, द्राविडी निष्कुटित्रुटि: कपोतवर्णिका तुच्छा, कोरङ्गी बहुला तुला । स्थूलैलायां बृहदेला, पत्रैला त्वक्सुगन्धिका त्रिदिवोद्भवा पृथ्वीका, कर्णिका त्रिपुटा पुटा । कपूरे घनसार: स्याद्धिमाह्वो हिमवालुकः सिताभ्रः शीतलरजः, स्फटिकश्चन्द्रनामकः । कङ्कोलके कटुफलं, कोमलं मागधोत्थितम् कोलं कोषफलं कोरं, मारीचं द्वीपमित्यपि । लवङ्गे शिखरं दिव्या, भृङ्गारं वारिज लवम्
॥३०॥
॥ ३१ ॥
॥३२॥
॥ ३३ ॥
॥ ३४॥
॥ ३५ ॥
304
For Private And Personal Use Only