________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१८५ ॥
।। १८६ ।।
॥१८७॥
॥ १८८॥
॥ १८९॥
॥१९०॥
स्यादवर्ण उपक्रोशो वादो निष्पर्यपात् परः । गर्हणा धिक्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् आक्रोशाभीषङ्गाक्षेपाः शापः स क्षारणा रते। विरुद्धशंसनं गालिराशीमङ्गलशंसनम् श्लोकः कीतिर्यशोऽभिख्या समाज्ञा रुशती पुनः । अशुभा वाक् शुभा कल्या चर्चरी चर्भटी सभे यः सनिन्द उपालम्भस्तत्र स्यात् परिभाषणम् । आपृच्छाऽऽलाप: संभाषोऽनुलापः स्यान्मुहुर्वचः अनर्थकं तु प्रलापो विलापः परिदेवनम् । उल्लापः काकुवागन्योऽन्योक्तिः संलापसंकथे विप्रलापो विरुद्धोक्तिरपलापस्तु निह्नवः । सुप्रलापः सुवचनं संदेशवाक् तु वाचिकम् आज्ञा शिष्टिनिरानिभ्यो देशो नियोगशासने । अववादोऽप्यथाहूय प्रेषणं प्रतिशासनम् संवित्संधाऽऽस्थाभ्युपायः संप्रत्याङ्भ्यः परः श्रवः । अङ्गीकारोऽभ्युपगमप्रतिज्ञाऽऽगूश्च संगर: गीतनृत्यवाद्यत्रयं नाट्यं तौर्यत्रिकं च तत् । संगीतं प्रेक्षणार्थेस्मिन् शास्त्रोक्ते नाट्यधर्मिका गीतं गानं गेयं गीतिर्गान्धर्वमथ नर्तनम् । नटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् मण्डलेन तु यन्नृत्तं स्त्रीणां हल्लीसकं हि तत् । पानगोष्ठ्यामुच्चतालं रणे वीरजयन्तिका स्थानं नाट्यस्य रङ्गः स्यात्पूर्वरङ्ग उपक्रमः । अङ्गहारोऽङ्गविक्षेपो व्यञ्जकोऽभिनयः समौ
॥ १९१ ॥
॥१९२ ॥
॥ १९३॥
॥ १९४॥
॥ १९५ ॥
॥ १९६ ॥
૨૪
For Private And Personal Use Only