SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १७३॥ ॥१७४॥ ॥ १७५ ॥ ।। १७६ ॥ ।। १७७॥ ॥ १७८ ॥ इतिहासः पुरावृत्तं प्रवह्निका प्रहेलिका । जनश्रुतिः किंवदन्ती वातैतिह्यं पुरातनी वार्ता प्रवृत्तिवृत्तान्त उदन्तोऽथाऽऽह्वयोऽभिधा । गोत्रसंज्ञानामधेयाऽऽख्याऽऽह्वाऽभिख्याश्च नाम च संबोधनमामन्त्रणमाह्वानं त्वभिमन्त्रणम् । आकारणं हवो हूतिः संहूतिर्बहुभिः कृता उदाहार उपोद्घात उपन्यासश्च वाङ्मुखम् । व्यवहारो विवाद: स्याच्छपथः शपनं शपः उत्तरं तु प्रतिवचः प्रश्नः पृच्छाऽनुयोजनम्। कथंकथिकता चाथ देवप्रश्न उपश्रुतिः चटु चाटु प्रियप्रायं प्रियसत्यं तु सूनृतम् । सत्यं सम्यक् समीचीनमृतं तथ्यं यथातथम् यथास्थितं च सद्भूतेऽलीके तु वितथानृते । अथ क्लिष्टं संकुलं च परस्परपराहतम् सान्त्वं सुमधुरं ग्राम्यमश्लीलं म्लिष्टमस्फुटम् । लुप्तवर्णपदं ग्रस्तमवाच्यं स्यादनक्षरम् अम्बूकृतं सथूत्कारे निरस्तं त्वरयोदितम् । आमेडितं द्विस्त्रिरुक्तमबद्धं तु निरर्थकम् पृष्ठमांसादनं तद् यत् परोक्षे दोषकीर्तनम् । मिथ्याऽभियोगोऽभ्याख्यानं संगतं हृदयंगमम् परुषं निष्ठुरं रूक्षं विक्रुष्टमथ घोषणा। उच्चैर्युष्टं वर्णनेडा स्तवः स्तोत्रं स्तुतिर्नुतिः श्लाघा प्रशंसाऽर्थवादः सा तु मिथ्या विकत्थनम् । जनप्रवाद: कौलीनं विगानं वचनीयता ॥ १७९ ॥ ॥ १८० ॥ ।। १८१ ॥ ॥ १८२ ॥ ॥ १८३ ॥ ॥ १८४ ॥ २३ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy