SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उत्पाद पूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् । अस्तेर्ज्ञानात् सत्यात् तदात्मनः कर्मणश्च परम् प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च । प्राणावायं च क्रियाविशालमथ लोकबिन्दुसारमिति स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदस्त्रयी पुनः | ऋग्यजुःसामवेदाः स्युरथर्वा तु तदुद्धृतिः वेदान्तः स्यादुपनिषदोङ्कारप्रणवौ समौ । शिक्षा कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तयः षडङ्गानि धर्मशास्त्रं स्यात्स्मृतिर्धर्मसंहिता । आन्वीक्षिकी तर्कविद्या मीमांसा तु विचारणा सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुवंशचरितं पुराणं पञ्चलक्षणम् षडङ्गी वेदाश्चत्वारो मीमांसाऽन्वीक्षिकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश सूत्रं सूचनकृद्भाष्यं सूत्रोक्तार्थप्रपञ्चकम् । प्रस्तावस्तु प्रकरणं निरुक्तं पदभञ्जनम् अवान्तरप्रकरणविश्रामे शीघ्रपाठतः । आह्निकमधिकरणं त्वेकन्यायोपपादनम् उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वार्तिकम् । टीका निरन्तरव्याख्या पञ्जिका पदभञ्जिका निबन्धवृत्ती अन्वर्थे संग्रहस्तु समाहतिः । परिशिष्टपद्धत्यादीन् पथाऽनेन समुन्नयेत् कारिका तु स्वल्पवृत्तौ बहोरर्थस्य सूचनी । कलन्दिका सर्वविद्या निघण्टुर्नामसंग्रहः ૨૨ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १६१ ॥ ॥ १६२ ॥ ॥ १६३ ॥ ॥ १६४ ॥ ॥ १६५ ॥ ॥ १६६ ॥ ॥ १६७ ॥ ॥ १६८ ॥ ॥ १६९ ॥ ॥ १७० ॥ ॥ १७१ ॥ ॥ १७२ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy