________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७॥
॥ १८ ॥
॥ १९॥
॥ २०॥
॥ २१ ॥
|| २२ ॥
हा शुगदु:खविषादेषु हि हेताववधारणे । विशेषे पादपूर्णौ च ही विस्मयविषादयोः दुःखहेतौ च हं रोषे भाषणेऽनुनयेऽपि च । हुं वितर्के परिप्रश्ने स्यान्मनागल्पमन्दयोः अङ्ग सम्बोधने हर्षे पुनरर्थे च किंच तु । साकल्यारम्भयोः तिर्यक् स्यात्तिरश्चीनवक्रयोः हिरुक् मध्ये विनार्थेऽति प्रकर्षे लङ्घने भृशे। स्तुतावसं प्रतिक्षेपेऽप्यस्तु पीडानिषेधयोः असूयायामनुज्ञायामारार्दूरसमीपयोः । इति स्वरूपे सान्निध्ये विवक्षानियमे मते हेतौ प्रकारप्रत्यक्षप्रकाशेष्ववधारणे । एवमर्थे समाप्तौ स्यादुत प्रश्नवितर्कयोः समुच्चये विकल्पे च तावद् यावद् दिवाऽवधौ । कात्स्न्र्येवधारणे गाने प्रतीत्थं भूतभागयोः प्रतिदाने प्रतिनिधौ वीप्सालक्षणयोरपि । पश्चात् प्रतीच्यां चरमे बताऽऽमन्त्रणखेदयोः वृत्याश्चर्यानुकम्पासु यद्वत्प्रश्नवितर्कयोः । शश्वत्सह पुनर्नित्ये सकृत्सहैकवारयोः स्वत्याशी: क्षेमपुण्यादौ साक्षात्प्रत्यक्षतुल्ययोः । हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः निश्चये च प्रमोदे चाप्यथोऽथ समुच्चये। मङ्गले संशयारम्भाधिकारानन्तरेषु च अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि । तथा स्यानिश्चये पृष्ठप्रतिवाक्यसमुच्चये
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
।। २६॥
॥ २७ ॥
॥ २८ ॥
૨૯૯
For Private And Personal Use Only