SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ६॥ ॥ ७ ॥ ॥८ ॥ ॥ ९॥ ॥ १० ॥ उं प्रश्नेऽङ्गीकृतौ रोषेऽप्यूं प्रश्ने रोषवाचि च । ऋ कुत्सावाक्ययोरे ऐ हे है शब्दाविव स्मृतौ आमन्त्रणाह्वानयोरों प्रणवेऽङ्गीकृतावपि । ओ औ शब्दौ तु हो हौ वद् हूतौ सम्बोधनेऽपि च कु पापीयसि कुत्सायामीषदर्थे निवारणे । कं सुखे वारिशिरसोः किं प्रश्ने कुत्सनेऽपि च चान्योऽन्यार्थसमाहारान्वाचयेषु समुच्चये। हेतौ पक्षान्तरे तुल्ययोगिताविनियोगयोः पादपूरणेऽवधृतौ तु विशेषेऽवधारणे। समुच्चये पादपूर्ती धिक् निर्भर्त्सननिन्दयोः नि स्यात्क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि। सन्धानोपरमयोः संश्रयाश्रयराशिषु मोक्षेऽन्तभावेऽधोभावे बन्धने कौशलेऽपि च । नु प्रश्नेऽनुशयेऽतीतार्थे विकल्पवितर्कयोः नजीषदर्थे सादृश्ये तद्विरुद्धतदन्ययोः । व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि निनिश्चये क्रान्ताद्यर्थे नि:शेषप्रतिषेधयोः । प्राक् पूर्वस्मिन् प्रभाते दिग्देशकालेष्वनन्तरे अतीतेऽग्रेऽप्यथ प्र स्याद्गताद्यर्थप्रकर्षयोः । वा समुच्चय एवार्थ उपमानविकल्पयोः वि श्रेष्ठेऽतीते, नानार्थे वै हेतौ पादपूरणे । शं कल्याणे सुखेऽथ स्वित् परिप्रश्नवितर्कयोः सं संगार्थ प्रकृष्टार्थे शोभनार्थसमार्थयोः । स्मातीते पादपूर्ती ह सम्बुद्धौ पादपूरणे ॥ १२॥ ॥ १३ ॥ ॥ १४॥ ॥ १५ ॥ ॥ १६॥ ૨૯૮ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy